आत्ममाने खश्च

3-2-83 आत्ममाने खः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि सुपि णिनिः मनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आत्मनो मननमात्ममानः। आत्ममाने वर्तमानाद् मन्यतेः सुप्युपपदे खश् प्रत्ययो भवति। चकाराद् णिनिश्च । यदा प्रत्ययार्थः कर्तात्मानमेव दर्शनीयत्वादिना धर्मेण युक्तं मन्यते, तदायं विधिः। दर्शनीयमात्मानं मन्यते दर्शनीयंमन्यः, दर्शनीयमानी। पण्डितंमन्यः, पण्डितमानी। आत्ममान इति किम्? दर्शनीयमानी देवदत्तस्य यज्ञदत्तः॥

Siddhanta Kaumudi

Up

स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी । खित्यनव्ययस्य <{SK2943}> । कालिंमन्या । अनव्ययस्य किम् । दिवामन्या ॥

Laghu Siddhanta Kaumudi

Up

स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः। पण्डितमानी॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आत्ममाने खश्च>> - आत्मामने खश्च । आत्मनः = स्वस्य, मानः = मननम् - आत्ममानः । तदाह — स्वकर्मके मनने इति । पण्डितम्भन्य इति । खशः शित्त्वेन सार्वधातुकत्वाच्छ्यन् । खित्त्वात्अरुर्द्विषटदिति मुम् । तानादिकस्य मनेग्र्रहणे तु उविकरणः स्यात् । कालीमात्मानं मन्यते इत्यर्थे खशि श्यनि कृते आह — खित्यनव्यवयस्येति ।स्त्रियाः पुंव॑दिति पुंवत्त्वं बाधित्वा परत्वाद्ध्रस्व इत्यर्थः । दिवामन्येति । अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम् ।

Padamanjari

Up

आत्ममाने खश्च॥ चकाराण्णिनिश्चेति। वाऽसरूपविधिना सिद्धोऽपि णिनिरविच्छेदाय समुच्चीयते। तेन'करणे यजः' इत्यत्र णिनेरेवानुवृत्तिर्भवति, नानन्तरस्य खशः। आत्मशब्दोऽयं परव्यावृत्तिं कुर्वाणो यस्तत्प्रतियोगिनमर्थमाचष्टे स स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। मननं मानः, भावे घञ्, आत्मनो मान आत्ममानः - कर्मणि षष्ठ।ल समासः। तत्र कस्येत्यपेक्षायां प्रत्ययार्थस्य सन्निहितस्य मन्तुरेवात्मन इति गम्यते, तदाह - प्रत्ययार्थः कर्तेति। दर्शनियत्वादिना धर्मेणेति विशिष्टमिति शेषः। कर्तरि षष्ठ।लस्तु समासो न भवति, सर्वस्या एव मतेर्मन्तृकर्तृकत्वाव्यभिचाराद्। एवं चेतनद्रव्यवचनेऽप्यात्मशब्दे कर्तरि षष्ठ।लमव्यभिचारादविशेषणं कर्मणि षष्ठ।ल, न तु चेतनान्तरे कर्मणि प्रत्ययप्रसङ्गः, तस्मात्स्वशब्दपर्याय एवात्मशब्दः। दर्शनीयम्मन्य इति। शरीरधर्ममपि दर्शनीयत्वादिकमात्मधर्ममेव मन्यन्ते संसारिणः शरीरशरीरिणोरग्न्ययोगोलकयोरिवाभेदं मन्यमानाः। पण्डितम्मन्य इति। एकस्याप्यात्मनस्स्वरूपेण कर्तृत्वं पण्डितत्वादिविशिष्टरूपेण कर्मत्वं च युज्यत एव। यथोक्तमाचार्यैः - अस्मत्प्रयोगसम्भिन्ना ज्ञानस्यैव च कर्तरि। भवन्ती तत्र संवितिर्युज्येताप्यात्मकर्तृका॥ इति। खशः खकारो मुमर्थः, दर्शनीयम्मन्या कुमारीत्यादौ ह्रस्वार्थश्च। शकारः सार्वधातुकसंज्ञार्थः, दिवादित्वाच्छयन्। स्वरस्तु सतिशिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधते इति खश एव भवति, न नित्स्वरः। दर्शनीयमानी देवदतो यज्ञदतस्येति। कर्मणि षष्ठी, तदपेक्षयास्यापि दर्शनीयशब्दस्य गमकत्वात्समासः॥