3-2-82 मनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि सुपि णिनिः
index: 3.2.82 sutra: मनः
सुपि इति वर्तते। मन्यतेः सुबन्ते उपपदे णिनिः प्रत्ययो भवति। दर्शनीयमानी। शोभनमानी। बहुलग्रहणानुवृत्तेः मन्यतेः ग्रहणं न मनुतेः। उत्तरसूत्रे हि खश्प्रत्यये विकरणकृतो विशेषः स्यात्।
index: 3.2.82 sutra: मनः
सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी ॥
index: 3.2.82 sutra: मनः
सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी॥
index: 3.2.82 sutra: मनः
मनः - मनः । दैवादिकस्यैव मनेग्र्रहणं न तु तानादिकस्य, बहुलग्रहणाऽनुवृत्तेः । तदाह — मन्यतेरिति । मनुतेग्र्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते ।
index: 3.2.82 sutra: मनः
मनः॥ मन्यतेर्ग्रहणमिति।'मन ज्ञाने' इत्यस्य दैवादिकस्य। न मनुतेरिति।'मनु अवबोधने' इत्यस्य तानादिकस्य। तिपि गुणेन भवितव्यम्। यदि नेष्यते, संज्ञापूर्वको विधिरनित्यः। किं पुनः कारणं प्रयत्नेन मनोतेर्ग्रहणं निवार्यते, यावता इह द्वयोरपि णिनिः तदेव रूपम्, न चार्थभेद इत्याह - उतरसूत्र इति॥