बहुलमाभीक्ष्ण्ये

3-2-81 बहुलं अभीक्ष्ण्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि सुपि णिनिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आभीक्ष्ण्ये गम्यमाने धातोर्बहुलं णिनिः प्रत्ययो भवति। आभीक्ष्ण्यं पौनःपुन्यम्, तात्पर्यमासेवैव, ताच्छील्यादन्यत्। कषायपायिणो गान्धाराः। क्षीरपायिण उशीनराः। सौवीरपायिणो बाह्लीकाः। बहुलग्रहणात् कुल्माषखाद इत्यत्र न भवति॥

Siddhanta Kaumudi

Up

पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बहुलमाभीक्ष्ण्ये>> - बहुलमाभीक्ष्ण्ये । जातावप्युपपदे प्राप्त्यर्थमिदम् । तद्ध्वनयन्नुदाहरति — क्षीरपायिण इति ।

Padamanjari

Up

बहुलमाभीक्ष्ण्यो॥ आभीक्ष्ण्यं पौनः पुन्यमिति। पुनः पुनर्भवितरि वर्तमानाभ्यामव्ययाभ्यां भावे ष्यञ्, अव्ययानां भमात्रे टिलोपः। ताच्छील्यादन्यदिति। एतेनठ्सुप्यजातौऽ इत्यनेनागतार्थत्वं दर्शयति। फलानपेक्षा प्रवृत्तिःउताच्छील्यम्। गान्धारादयस्तु वातादिसाम्यार्थ देशाचारवशेन कषायादिपाने प्रवर्तन्ते। उदाहरणेषु ठातो युक् चिण्कृतोःऽ इति युक्,'प्रातिपदिकान्तनुम्विभक्तिषु च' इति णत्वम्॥