3-2-80 व्रते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि सुपि णिनिः
index: 3.2.80 sutra: व्रते
व्रत इति शास्त्रतो नियम उच्यते व्रते गम्यमाने सुबन्त उपपदे धातोः णिनिः प्रत्ययो भवति। समुदायोपधिश्च अयम्। धातूपपदप्रत्ययसमुदायेन व्रतं गम्यते। स्थण्डिलशायी। अश्राद्धभोजी। कामचारप्राप्तौ नियमः। सति शयने स्थण्डिल एव शेते न अन्यत्र। सति भोजनेऽश्राद्धम् एव भुङ्क्ते न श्राद्धम् इति। व्रते इति किम्? स्थाण्डिले शेते देवदत्तः। अतच्छील्यार्थ आरम्भः, जात्यर्थो वा।
index: 3.2.80 sutra: व्रते
णिनिः स्यात् । स्थण्डिलशायी ॥
index: 3.2.80 sutra: व्रते
व्रते॥ समुदायोपाधिश्चायमिति। न प्रत्ययार्थविशेषणम्। तथा हि सति व्रत एव कर्तरि प्रत्ययः स्यान्न तद्वतीति भावः। समुदायोपाधित्वमेव स्पष्टयति - धातूपपदेत्यादि। कामचारःउइच्छाप्रवृत्तिः, तत्प्राप्तौ सत्यां नियमः, स च द्विविधः सम्भवति - स्थण्डिले शेते एव अश्राद्धं भुङ्क्ते एवेत्येवंरूपो वा। तत्र पूर्वके नियमे यदैवासावशक्त्यादिनाऽश्राद्धं न भुङ्क्ते तदैव व्रतलोपः प्राप्नोति। न चैवंविधं शास्त्रमस्ति - स्थण्डिले शयितव्यमेव, अश्राद्धं भोक्तव्यमेवेति। अस्ति तु स्थण्डिल एव शयितव्यम्, अश्राद्धमेव भोक्तव्यमिति।'व्रते' इति तु शास्त्रितो नियमाः - इत्युक्तम्, तस्माद् द्वितीयो नियमो विज्ञायत इत्याह - सति शयन इत्यादि॥