कर्तर्युपमाने

3-2-79 कर्तरि उपमाने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि सुपि णिनिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्तृवाचिन्युपमान उपपदे धातोर्णिनिप्रत्ययो भवति। उपपदकर्ता प्रत्ययार्थस्य कर्तुरुपमानम्। उष्ट्र इव क्रोशति उष्ट्रक्रोशी। ध्वाङ्क्षरावी। अताच्छील्यार्थ आरम्भः, जात्यर्थो वा। कर्तरीति किम्? अपूपानिव भक्षयति माषान्। उपमान इति किम्? उष्ट्रः क्रोशति॥

Siddhanta Kaumudi

Up

णिनिः स्यात् । उपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्यार्थं जात्यर्थं च सूत्रम् । कर्तरि किम् । अपूपानिव भक्षयति माषान् । उपमाने किम् । उष्ट्रः क्रोशति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कर्तर्युपमाने>> - कर्तर्युपमाने । कर्तुरुपमानमिति ।चे॑दित्यध्याहार्यम् । ननु 'सुप्यजातौ' इति सिद्धे किमर्थमिदमित्यत आह — अताच्छील्यार्थमिति ।

Padamanjari

Up

कर्तर्युपमाने॥ उपमानस्योपेमेयापेक्षत्वात् कर्तरि च प्रत्ययविधानातस्यैवोपपदकर्तोपमानं विज्ञायेत इत्याह - उपपदकर्तेति। उष्ट्रक्रोशीति। इवशब्दो गतार्थत्वाद्वृतौ नैव प्रयुज्यते। समास उपमानानां शस्त्रीश्यामादिके यथा॥