3-2-77 स्थः क च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि क्विप्च
index: 3.2.77 sutra: स्थः क च
सुपि उपसर्गेऽपि इति च वर्तते। स्था इत्येतस्माद् धातोः सुपि उपपदे कप्रत्ययो भवति, क्विप् च। किमर्थम् इदमुच्यते, यावता सुपि स्थः 3.2.4 इति कः सिद्ध एव, अन्येभ्योऽपि दृश्यते 3.2.178 इति क्विप्? बाधकबाधनार्थं पुनर्वचनम्। शमि धातोः संज्ञायाम् 3.2.14 अचं बाधते शंस्थः। शंस्थाः।
index: 3.2.77 sutra: स्थः क च
चात् क्विप् । शंस्थः । शंस्थाः । शमि धातोः - <{SK2928}> इत्यचं बाधितुं सूत्रम् ॥
index: 3.2.77 sutra: स्थः क च
स्थः क च - स्थः क च ।के॑त्यविभक्तिकम् । स्थ इति पञ्यम्यन्तम् ।चात् क्विबिति । उपसर्गे अनुपसर्गे च सुबन्धे उपपदे स्थाधातोः कप्रत्ययः स्यात्, क्विप् चेति फलितम् । शंस्थ इति । शमित्यव्ययं सुखे । तत्पूर्वात्स्थाधातोः कप्रत्यये आतो लोपः । शंस्था इति, - क्विपि रूपम् ।सुखं स्थापयतीत्यर्थः । तिष्टितरन्तर्भावितण्यर्थः ।शंस्थाट इति भाष्यप्रयोगात्पृषोदरादित्वाच्चघुमास्थे॑ति ईत्त्वं न । केचित्तुक चे॑ति चकाराद्विजेवानुकृष्यते इत्याहुः । ननु 'सुपि स्थः' इति कप्रत्ययेक्विप् चे॑ति क्विपि च सिद्धे किमर्थमिदमित्यत आह — शमिधातोरित्यचमिति । अन्यथा धातुग्रहणसामर्थ्यात्कृञो हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं क्विपं च अच्प्रत्ययो बाधेतेति भावः ।
index: 3.2.77 sutra: स्थः क च
स्थः क च॥ केत्यविभक्तिको निर्देशः। अन्येभ्योऽपि द्दश्यत इति। क्विबिति सिद्ध एवेत्यपेक्षते। ननु तच्छीलादिग्रहणं तत्रानुवर्तते, तस्मात्'क्विप् च' इति क्विप् सिद्ध एवेति वक्तव्यम्। यद्वा तच्छीलादिग्रहणं तत्र न सम्बन्धनीयमिति मन्यते। नन्वेवमपि'सुपि स्थः' इति विशेषविहितः कः सामान्यविहितं क्विपं बाधेत? वाऽसरूपविधिना सोऽपि भविष्यति। शमि धातोः संज्ञायामचम् बाधत इति। अन्यथा यथा कृञो हेत्वादिषु ट्ंअ बाधते धातुग्रहणातथा तिष्ठतेरपि कक्विपौ बाधेत, अतस्तमप्यचं बाधित्वा कक्विपावेव यथा स्यातामिति पुनर्वचनमित्यर्थः। शंस्था इति। क्विपि लुप्ते प्रत्ययलक्षणेन घुमास्थादिसूत्रेणेत्वमत्र प्राप्नोति, भाष्यकारप्रयोगातु न भवति। केचितु - ईत्वमवकारादाविति वचनं पठन्ति, तेषां सुपीवा सुधीवा, अत्रापि न स्यात्॥