3-2-73 विच् उपे छन्दसि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि यजः
index: 3.2.73 sutra: विजुपे छन्दसि
उपे उपपदे यजेः छन्दसि विषये विच् प्रत्ययो भवति। उपयड्भिरूर्ध्वं वहन्ति। उपयट्त्वम्। छन्दोग्रहणं ब्राह्मणार्थम्। विचः चित्करणं सामान्यग्रहणाविघातार्थम् वेरपृक्तस्य 6.1.67 इति। किमर्थम् इदमुच्यते, यावत अन्येभ्योऽपि दृश्यन्ते 3.2.75 इति यजेरपि विच् सिद्ध एव? यजेर्नियमार्थम् एतत्, उपयजेः छन्दस्य इव, न भाषायाम् इति।
index: 3.2.73 sutra: विजुपे छन्दसि
उपे उपपदे यजेर्विच् । उपयट् ॥
index: 3.2.73 sutra: विजुपे छन्दसि
विजुपे च्छन्दसि॥ अथ च्छन्दोग्रहणं किमर्थम्, यावता मन्त्र इत्यनुवृतेरेवभाषायां न भविष्यति, तत्राह - च्छन्दोग्रहणं ब्राह्मणार्थमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्, यथोक्तम् - तच्चोदकेषु मन्त्राख्या, शेषे ब्राह्मणशब्द इति। किमर्थ पुनरिदमिति। उतरसूत्र एव विज्ग्रहणं च्छन्दोग्रहणं च क्रियतामिति प्रश्नः। नियमार्थमिति। ननु द्दशिग्रहणादेव भाषायां न भविष्यति, सत्यम्; तस्यैव प्रपञ्चार्थमिदम्॥