विजुपे छन्दसि

3-2-73 विच् उपे छन्दसि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि यजः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उप उपपदे यजेश्छन्दसि विषये विच् प्रत्ययो भविति। उपयड्भिरू र्ध्वं वहन्ति। उपयट्त्वम्। छन्दोग्रहणं ब्राह्मणार्थम्। विचः चित्करणं सामान्यग्रहणाविघातार्थम् — <<वेरपृक्तस्य>> ६.१.६७ इति। किमर्थमिदमुच्यते, यावता <<अन्येभ्योऽपि दृश्यन्ते>> ३.२.७५ इति यजेरपि विच् सिद्ध एव ? यजेर्नियमार्थमेतत्। उपयजेश्छन्दस्येव, न भाषायामिति॥

Siddhanta Kaumudi

Up

उपे उपपदे यजेर्विच् । उपयट् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

विजुपे च्छन्दसि॥ अथ च्छन्दोग्रहणं किमर्थम्, यावता मन्त्र इत्यनुवृतेरेवभाषायां न भविष्यति, तत्राह - च्छन्दोग्रहणं ब्राह्मणार्थमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्, यथोक्तम् - तच्चोदकेषु मन्त्राख्या, शेषे ब्राह्मणशब्द इति। किमर्थ पुनरिदमिति। उतरसूत्र एव विज्ग्रहणं च्छन्दोग्रहणं च क्रियतामिति प्रश्नः। नियमार्थमिति। ननु द्दशिग्रहणादेव भाषायां न भविष्यति, सत्यम्; तस्यैव प्रपञ्चार्थमिदम्॥