क्रव्ये च

3-2-69 क्रव्ये च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि विट् अदः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्रव्यशब्द उपपदेऽदेर्धातोर्विट् प्रत्ययो भवति। क्रव्यमत्ति क्रव्यात्। पूर्वेणैव सिद्धे वचनमसरूपबाधनार्थम्। तेनाण् न भवति। कथं तर्र्हि क्रव्यादः? कृत्तविकृत्तशब्द उपपदेऽण्, तस्य च पृषोदरादिपाठात् क्रव्यभावः। कृत्तविकृत्तपक्वमांसभक्षः क्रव्याद उच्यते, आममांसभक्षः क्रव्यादिति ॥

Siddhanta Kaumudi

Up

अदेर्विट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् आममांसभक्षकः । कथं तर्हि क्रव्यादोऽस्रप आशर इति । पक्वमांसशब्दे उपपदेऽण् । उपपदस्य क्रव्यादेशः पृषोदरादित्वात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्रव्ये च>> - क्रव्ये च । अदेर्विडिति । शेषपूरणमिदम् । अण्बाधनार्थमिति । क्रव्ये अदेर्विडेव, न त्वणित्यर्थलाभादिति भावः । कथं तर्हीति ।क्रव्ये उपपदे अदेर्विडेवे॑ति नियमादणोऽसंभवादित्याक्षेपः । समाधत्ते — पक्वमांसशब्ददिति । तर्हि 'पक्वमांसाद' इति स्यादित्यत आह — उपपस्य क्रव्यादेश इति । कुत इत्येत आह — पृषोदरादित्वादिति ।

Padamanjari

Up

क्रव्ये च॥ वाऽसरूपबाधनार्थमिति। तथा च वार्तिकम् - अदोऽनन्ने क्रव्यग्रहणं वासरूपनिवृत्यर्थमिति। कथं तर्हीति। यदि वाऽसरूपविधिबाधनार्थमिति भावः। कृतविकृतेति। कृतं च्छिन्नं तदेव पुनर्विशेषतः कृतमिति'पूर्वकाल' इति समासः, तस्य पक्वशब्देन पुनः स एव समासः, ततो मांसशब्देन पुनर्विशेषणसमासः। पृषोदरादित्वात्क्रव्यभाव इति। यद्येवम्, क्रव्याद इत्यस्य रूपस्यावर्जनीयत्वादलं वाऽसरूपबाधनार्थेनानेन वचनेन, वार्तिकविरोधश्चैवं वदत इत्याशङ्क्याह - कृतविकृतेत्यादि। अर्थमेदादुभयमपि नास्ति किलेत्ययमभिप्रायः॥