3-2-67 जनसनखनक्रमगमो विट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि छन्दसि
छन्दसि उपसर्ग सुपीत्यनुवर्तते। <<जन जनने>> <<जनी प्रादुर्भावे>> द्वयोरपि ग्रहणम्। तथा <<षणु दाने>> , <<वन षण संभक्तौ>> द्वयोरपि ग्रहणम्। जनादिभ्यो धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट् प्रत्ययो भवति। टकारः सामान्यग्रहणाविघातार्थो <<वेरपृक्तस्य>> (६.१.६७.) इति, विशेषणार्थश्च <<विड्वनोरनुनासिकस्यात्>> (६.४.४१.) इति। अ॒ब्जाः। गो॒जाः(ऋ० ४.४०.५)। सन — गो॒षा इ॑न्द्रो नृ॒षा अ॑सि (ऋ० ९.२.१०)। खन — बिस॒खाः (ऋ०६.६१.२)। कूपखाः। क्रम — द॑धि॒क्राः(ऋ० ४.३८.१०)। गम — अग्रे॒गा ने॑तृ॒णाम् (तै०सं० १.३.६.१)॥
विड्वनोः - <{SK2982}> इत्यात्वम् । अब्जाः (अ॒ब्जाः) । गोजाः (गो॒जाः) । गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॒सि) । सनोतेरनः - <{SK3645}> इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् (इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुजत्) । आ दधिक्राः शवसा पञ्च कृष्टीः (आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः) । अग्रेगाः (अग्रे॒गाः) ॥
जनसनखनक्रमगमो विट्॥ विशेषणार्थश्चोति।'विवनोः' इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्। अथात्र निरनुबन्धकत्वादस्यैव ग्रहणम्?'वेरपृक्तस्य' इत्यत्राप्यस्यैव ग्रहणं स्यात्। अथात्र क्विबादीनामपि ग्रहणं स्यात्?'विड्वनोरनुनासिकस्यात्' इत्यत्रापि स्यादिति समानं वचेति भावः। गोषा इति।'सनोतेरनः' इति षत्वम्। अग्रेगा इति। पूर्ववदलुक्॥