3-2-66 हव्ये अनन्तः पादम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि छन्दसि वहः च
हव्यशब्द उपपदे छन्दसि विषये वहेर्धातोर्ञ्युट् प्रत्ययो भवति, अनन्तः पादं चेद् वहिर्वर्तते। अ॒ग्निश्च॑ हव्य॒वाह॑नः॒ (शौ०सं०७.२०.१)। अनन्तः पादमिति किम्? ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नः॑ (ऋ० ५.४.२)॥
अग्निश्च हव्यवाहनः (अ॒ग्निश्च॑ हव्य॒वाह॑नः) । पादमध्ये तु वहश्च <{SK3410}> इति ण्विरेव । हव्यवाळग्निरजरः पिता नः (ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नः॑) ॥