3-2-65 कव्यपुरीषपुरीष्येषु ञ्युट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि छन्दसि वहः च
कव्य पुरीष पुरीष्य इत्येतेषूपदेषु छन्दसि विषये वहेर्धातोर्ञ्युट् प्रत्ययो भवति। कव्य॒वाह॑नः पितृ॒णाम् (तै०सं०२.५.८.६)। पु॑रीष॒वाह॑णः (मा०सं०११.४४)। पु॒रीष्य॒वा॑ह॒नः (मै०सं०२.७.४)॥
एषु वहेर्ञ्युट् स्याच्छन्दसि । कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहनः ॥