प्रे दाज्ञः

3-2-6 प्रे दाज्ञः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे कः सुपि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सोपसर्गार्थ आरम्भः। ददातेर्जानातेश्च धातोः प्रेणोपसृष्टात् कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। सर्वप्रदः। पथिप्रज्ञः। प्र इति किम्? गोसंदायः॥

Siddhanta Kaumudi

Up

दारूपाज्जानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सति न कः । गोसंप्रदायः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रे दाज्ञः>> - प्रे दाज्ञः । 'प्रे' इति सप्तमी पञ्चम्यर्थे । दा, ज्ञा — अनयोद्र्वन्द्वात्पञ्चम्येकवचम् । प्रोपसृष्टादिति । प्रेत्युपसर्गपूर्वकादित्यर्थः । सोपसर्गार्थ आरम्भः ।

Padamanjari

Up

प्रे दाज्ञः॥ ददातेरिति। उपलक्षणमेतत्।'गामादाग्रहणेष्वविशेषः' इति सर्वेषामेव दारूपाणां ग्रहणमिष्यते। जानातेश्चेति। जनेस्त्वल्लोपेनायं निर्देशो न भवति;'खनो घ च' 'हनश्च वधः' इत्यादौ धातुनिर्द्देशेऽल्लोपस्याकरणात्। प्रेणोपसृष्टादिति। प्रशब्देनोपसर्गेण सम्बद्भादित्यर्थः। ठनुपसर्गेऽ इति चानुवर्तते, तेन केवलेन प्रेणोपसृष्टादित्यर्थः। अतश्च गोसम्प्रदाय इत्यणेव भवति॥