तुन्दशोकयोः परिमृजापनुदोः

3-2-5 तुन्दशोकयोः परिमृजापनुदोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे कः सुपि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदोर्धात्वोः कप्रत्ययो भवति। तुन्दपरिमृज आस्ते। शोकापनुदः पुत्रो जातः॥ आलस्यसुखाहरणयोरिति वक्तव्यम्॥ अलसस्तुन्दपरिमृज उच्यते। तुन्दपरिमार्ज एवान्यः। सुखस्याहर्ता शोकापनुदः। शोकापनोद एवान्यः॥ कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्॥ मूलानि विभुजतीति मूलविभुजो रथः। नखमुचानि धनूंषि। काकगुहास्तिलाः। कौ मोदते कुमुदम्॥

Siddhanta Kaumudi

Up

तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् ।<!आलस्यसुखाहरणयोरिति वक्तव्यम् !> (वार्तिकम्) ॥ तुन्दं परिमार्ष्टीति तुन्दपरिमृजोऽलसः । शोकापनुदः । सुखस्याहर्ता । अलसादन्यत्र तुन्दपरिमार्ज एव । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः ।<!कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् । महीध्रः । कुध्रः । गिलतीति गिलः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तुन्दशोकयोः परिमृजापनुदोः>> - तुन्दशोकयोः । तुन्दशोकयोरिति सप्तमी । परिमृज, अपनुद, अनयोद्र्वन्द्वात्पञ्चम्यर्थे षष्ठी । तदाह — उपपदयोराभ्यामिति । तुन्दपरिमृज इति । तुन्दम् = उदरम् । अत्र 'मृजेरजादौ' इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः । मूलानि विभुजतीति । विमर्दयतीत्यर्थः । 'भुजो कौटिल्ये' तुदादिः । इहोपसर्गबलादन्मर्दने वृत्तिः । महीध्र इति । महीं धरतीति विग्रहः । कित्त्वान्न गुणः । ऋकारस्य यण् रेफः । अणि तु 'महीधार' इति स्यात् । कुध्र इति । कुः = पृथ्वी, तां धरतीति विग्रहः । गिल इति । 'गृ निगरणे' अस्मात्कः, कित्त्वान्न गुणः, इत्त्वं, रपरत्वम् ।अचि विभाषे॑ति लत्वम् ।

Padamanjari

Up

तुन्दशोकयोः परिमृजापनुदोः॥ तुन्दपरिमृज इति। मृजेरजादौ संक्रम इत्यत्र'यस्मिन्विधिस्तदादौ' इत्येव सिद्धे आदिग्रहणं मुख्याजादिपरिग्रहार्थम्, तेन व्यपदेशिवद्भावेनाजादावत्र के वॄअद्धिर्न भवति। आलस्य इत्यादि। आलस्ये गम्यमाने सुखोत्पादने च प्रत्यय इत्यर्थः। तत्र सामर्थ्यादलसे कर्तरि सुखस्य चाहर्तरि प्रत्ययो भवतीत्युक्तं भवति। शोकापनोद एवान्य इति। यस्संसारानित्यताद्यौपदेशेन शोकमेव केवलमपनुदति, न तु सुखमुत्पादयति स शोकापनोदः। मूलविभुजादिभ्य इति। तादर्थ्य एषा चतुर्थी, मूलविभुजादिसिद्ध्यर्थमिर्त्थः। आकृतिगणश्चायम्, तेन महीध्र - कुध्र - शिरोरुहादि सिद्धं भवति। काकगुहा इति। काकेभ्यो गूहितव्या इति कर्मणि कप्रत्यय इष्यते, अतो घञर्थे कविधानमित्यत्रेदं द्रष्टव्यम्॥