कर्तरि भुवः खिष्णुच्खुकञौ

3-2-57 कर्तरि भुवः खिष्णुच्खुकञौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेषु अच्वौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आढ्यादिषु सुबन्तेषूपपदेषु च्व्यर्थेष्वच्व्यन्तेषु भवतेर्धातोः कर्तरि कारके खिष्णुच् खुकञ् इत्येतौ प्रत्ययौ भवतः। अनाढ्य आढ्यो भवति आढ्यंभविष्णुः। आढ्यंभावुकः। सुभगंभविष्णुः। सुभगंभावुकः। स्थूलंभविष्णुः। स्थूलंभावुकः। पलितंभविष्णुः। पलितंभावुकः। नग्नंभविष्णुः। नग्नंभावुकः। (काठ०सं० २६.६)। अन्धंभविष्णुः। अन्धंभावुकः। प्रियंभविष्णुः। प्रियंभावुकः। कर्तरीति किम्? करणे मा भूत्। च्व्यर्थेष्वित्येवआढ्यो भविता। अच्वावित्येव — आढ्यीभविता।

उदात्तत्वाद् भुवः सिद्धमिकारादित्वमिष्णुचः।

नञस्तु स्वरसिद्ध्यर्थम् इकारादित्वमिष्यते॥

Siddhanta Kaumudi

Up

आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः । अनाढ्य आड्यो भवतीति आढ्यंभविष्णु । आढ्यंभावुकः । स्पृशोऽनुदके क्विन् <{SK432}> । घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । ऋत्विद्गधृक्स्रद्गिगुष्णिगञ्चुयुजिक्रुञ्चां च <{SK373}> । व्याख्यातम् । त्यदादिषु दृशोऽनालोचने कञ्च <{SK429}> ।<!समानान्ययोश्चेति वाच्यम् !> (वार्तिकम्) ॥ सदृक् । सदृशः । अन्यादृक् । अन्यादृशः ।<!क्सोऽपि वाच्यः !> (वार्तिकम्) ॥ तादृक्षः । सदृक्षः । अन्यादृक्षः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कर्तरि भुवः खिष्णुच्खुकञौ>> - कर्तरि भुवः । खिष्णुचि खचावितौ । खुकञि खञावितौ । आढम्भविष्णुरिति । अनाढ आढओ भवतीति विग्रहः । आढम्भावुक इति । ञित्त्वाद्वृद्धिः । करणग्रहणाऽनुवृत्तिनिवृत्तये कर्तृग्रहणमम् । खिष्णुचि इकारस्तु व्यर्थ एव, इटा सिद्धेः । अच्वौ किम् । आढ्यीभविता । स्पृशोऽनुदके क्विन्निति — व्याक्यातं हलन्ताधिकारे । निवृत्तिमिति । अत्र व्याख्यानमेव शरणम् । समानान्ययोश्चेति । अनयोरुपपदयोर्दृशः क्विन्कञावित्यर्थः । सदृक् सदृश इति । समानो दृश्यते इति न विग्रहः, कर्तर्येव क्विन्विधानात् । किन्तु कर्मकर्तरि क्विन्कञौ॥ समानः पश्यतीति विग्रहः । समानत्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् । 'दृग्दृशवतुषु' इति समानस्य सभावविकल्पऋ । तत्र 'विभाषोदरे' इत्यतो विभाषानुवृत्तेः,समानदृक् सदृक् । समानसदृशः सदृश॑ इति भाषाच्च । अन्यादृगिति । 'आ सर्वनाम्नः' इत्यात्वम् । क्सोऽपीति । त्यदादिषु समानान्ययोश्च दृशेः क्सोऽपि वाच्य इत्यर्थः ।

Padamanjari

Up

कर्तरि भुवः खिष्णुच्खुलञौ॥कर्तग्रहणं करणनिवृत्यर्थम्, उतरार्थं च, खकारो मुमर्थः, चकारः स्वरार्थः, ञकारो वृद्ध्यर्थश्च। किमर्थं खिष्णुजिकारादिः क्रियते, न ख्स्नुरित्येवोच्येत, तत्रायमप्यर्थः - स्वरार्थश्चकारो न कर्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम्? केनेदानीमिकारादित्वं सिद्ध्यति? तत्राह - उदातत्वादिति। भवतिरयमुदातः, तस्योदातत्वादिड् भविष्यति। नञस्त्विति।'नञः' इति पञ्चमी, नञ उतरस्य खिष्णुजन्तस्य स्वरमिद्ध्यर्थमित्यर्थः। यद्ययमिकारादिर्नक्रियेत्, ततः सत्यपीटि'कृत्योकेष्णुच्चार्वादयश्च' इत्यस्य ग्रहणं न स्याद् अस्य चकाराभावात्। अथास्यापि चकारः क्रियेत? एवमपि लाक्षणिकत्वात् षत्वणत्वयोश्चासिद्धत्वादिष्णुजिति रूपाभावाद् ग्रहणं न स्यादेव, तत इकारादित्वं क्रियते। ननु च सत्यपीकारादित्वे'तदनुबन्धकग्रहणे नातदनुबन्धकस्य' ,ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इति वा अलंकृञादीष्णुच एव ग्रहणेन भवितव्यम्,नास्य? इकारोच्चारणसामर्थ्यादस्यापि ग्रहणं भविष्यतीति मन्यते। यद्येवम्, ख्ष्णुजयमस्तु, तत्र षत्वणत्वयोश्चकारस्य चज करणसामर्थ्यादिटि कृतेऽस्यापि ग्रहणं सिद्धमिति चिन्त्यप्रयोजनमकाराइदित्वम्॥