पाणिघताडघौ शिल्पिनि

3-2-55 पाणिघताडघौ शिल्पिनि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि हनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि। पाणि ताड इत्येतयोः कर्मणोरुपपदयोर्हन्तेर्धातोः टक् ‘प्रत्ययो भवति, तस्मिंश्च परतो हन्तेष्टिलोपो घत्वं च निपात्यते। पाणिघः। ताडघः। शिल्पिनीति किम्? पाणिघातः। ताडघातः॥ राजघ उपसंख्यानम्॥ राजानं हन्ति राजघः॥

Siddhanta Kaumudi

Up

हन्तेष्टक् टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः । ताडघातः ।<! राजघ उपसंख्यानम् !> (वार्तिकम्) ॥ राजनं हन्ति राजघः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पाणिघताडघौ शिल्पिनि>> - पाणिघताडघौ । पाणिना हन्तीति पाणिघः । ताडः = ताडनं, तेन हन्तीति ताडघः = मल्लादिः । राजघ उपसङ्ख्यानमिति । राजघशब्दे उक्तनिपातनस्य उपसङ्ख्यानमित्यर्थः ।

Padamanjari

Up