शक्तौ हस्तिकपाटयोः

3-2-54 शक्तौ हस्तिकपाटयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि हनः टक्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शक्तौ गम्यमानायां हस्तिकपाटयोः कर्मणोरुपपदयोर्हन्तेष्टक् प्रत्ययो भवति। मनुष्यकर्तृकार्थ आरम्भः। हस्तिनं हन्तुं शक्त ो हस्तिघ्नो मनुष्यः। कं पाटयति प्रविशत इति कपाटघ्नश्चौरः। शक्ताविति किम्? विषेण हस्तिनं हन्ति हस्तिघातः॥

Siddhanta Kaumudi

Up

हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटघ्नश्चोरः । कवाटेति पाठान्तरम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शक्तौ हस्तिकपाटयोः>> - शक्तौ हस्तिकवाटयोः । हस्तिघ्न इति । हस्तिनं हन्तुं शक्त इत्यर्थः । एवं कवाटघ्नः ।

Padamanjari

Up

शक्तौ हस्तिकपाटयोः॥ विषेण हस्तिनं हन्तीति। नन्वत्राप्यशक्तस्य कर्तृत्वानुपपतेरस्त्येव शक्तिः? सत्यम्; शक्तिग्रहणसामर्थ्यात्प्रकर्षविज्ञानादन्यतिरपेक्षस्वबलेनैव हन्तुं या शक्तिः सा गृह्यते, तद्दर्शयति - हस्तिनं हन्तुं समर्थो हस्तिध्नो मनुष्य इति। एवं च हस्तिनं हन्तु मा वा वधीत् सामर्थ्ययोगाद्धस्तिघ्न इत्युच्यते। कं पाटयति प्रविशत इति। कपाटशब्दं व्युत्पादयति। कवाटमिति तु प्रसिद्धः, तत्राटतेः पचाद्यच्।'कवङ् चोष्णो' इति योगविभागात्कोः कवादेशः॥