3-2-53 अमनुष्यकर्तृके च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि हनः टक्
अमनुष्यकर्तृके वर्तमानाद् हन्तेर्धातोः कर्मण्युपपदे टक् प्रत्ययो भवति। जायाघ्नस्तिलकालकः। पतिघ्नी पाणिरेखा। श्लेष्मघ्नं मधु। पित्तघ्नं घृतम्। अमनुष्यकर्तृक इति किम्? आखुघातः शूद्रः। इह कस्माद् न भवति — चौरघातो हस्ती? <<कृत्यल्युटो बहुलम्>> ३.३.११३ इति बहुलवचनादण् भवति॥
जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । पित्तघ्नं घृतम् । अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः प्रलम्बघ्नः । शत्रुघ्नः । कृतघ्न इत्यादि । मूलविभुजादित्वात्सिद्धम् ॥ चोरघातो नगरघातो हस्तीति तु बाहुलकादणि ॥
<<अमनुष्यकर्तृके च>> - अमनुष्य । अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः । जायाघ्नस्तिलकालक इति । तिलाकृतकृष्णबिन्दुरित्यर्थः । पूर्वसूत्रस्य लक्षणवति कर्तरि प्रवृत्तिरिति भावः । अथ कथमिति । प्रलम्बघ्नादौ हन्तेर्मनुष्यकर्तृकतया टकोऽसंभवादित्याक्षेपः । समाधत्ते — मूलविभुजादित्वात्सिद्धमिति । कप्रत्ययेनेति भावः । ननुचोरघातो हस्ती॑त्यादि कथम्, अमनुष्यकर्तृकत्वेन हन्तेष्टको दुर्वारत्वादित्यत आह — चोरघात इत्यादीति । बाहुलकादणीति ।कृत्यल्युटो बहुल॑मिति बहुलग्रहणादणि समाधेयमिति भावः ।
अमनुष्यकर्तृके च॥ अमनुष्यशब्दो रक्षः पिशाचादिषु रूढ इति पूर्वमुक्तम्, इह तु मनुष्यादन्यः सर्व एव गृह्यते। ननु यथा पूर्वसूत्रे लक्षणग्रहणं प्रत्ययार्थस्य कर्तुविशेषणम्, एवमिहाप्यमनुष्यग्रहणं भविष्यतीति नार्थः कर्तृग्रहणेन? ठमनुष्येऽ इत्युच्यमाने उपपदत्वमपि विज्ञायेत, तस्मात्कर्तृ ग्रहणम्। कृतघ्नशब्दो मूलविभुजादिषु द्रष्टव्यः॥