लक्षणे जायापत्योष्टक्

3-2-52 लक्षणे जायापत्योः टक् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि हनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हन्तेर्जायापत्योः कर्मणोरुपपदयोर्लक्षणवति कर्तरि टक् प्रत्ययो भवति। जायाघ्नो ब्राह्मणः। पतिघ्नी वृषली। अथ वा लक्षणे द्योत्ये टक् प्रत्ययः॥

Siddhanta Kaumudi

Up

हन्तेष्टक् स्याल्लक्षणवति कर्तरि । जायाघ्नो ना । पतिघ्नी स्त्री ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लक्षणे जायापत्योष्टक्>> - लक्षणे । लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः । जायाघ्नो नति । जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः ।गमहने॑त्युपधालोपः । पतिघ्नी स्त्रीति । पतिहननसूचनलक्षणवतीत्यर्थः । टित्त्वान्ङीप् ।

Padamanjari

Up

लक्षणे जायापत्योष्टक्॥ लक्षणवतीति। एतेनार्श आद्यच्प्रत्ययान्तो लक्षणशब्द इति दर्शयति। एतच्च सूत्रारम्भादेवावसीयते, केवले हि लक्षणे उतरेणैव सिद्धः प्रत्ययः। जायाध्नो ब्राह्मण इति। यस्य तिलकालादि जायामरणलिङ्गमस्ति स तां हन्तीति गौणो गदः। एतेन पतिघ्नी व्याख्याता।'गमहन' इत्युपधालोपः, टित्वान्ङीप्॥