3-2-51 कुमारशीर्षयोः णिनिः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि हनः
हन इति वर्तते। कुमार शीर्ष इत्येतयोरुपपदयोर्हन्तेर्णिनिः प्रत्ययो भवति। कुमारघाती। शीर्षघाती। निपातनाच्छिरसः शीर्षभावः॥
कुमारघाती । शिरसः शीर्षभावो निपात्यते । शीर्षघाती ॥
<<कुमारशीर्षयोर्णिनिः>> - कुमारशीर्षयोर्णिनिः । अनयोरुपपदयोर्हन्तेर्णिनिः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः ।
कुमारशीर्षयोर्णिनिः॥'सुप्यजातौ' इति सिद्धेऽताच्छीत्यार्थमिदं वचनम्,शिरसः, शीर्षभावार्थ च॥