3-2-50 अपे क्लेशतमसोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि डः हनः
अपपूर्वाद् हन्तेः क्लेशतमसोः कर्मणोरुपपदयोर्डप्रत्ययो भवति। क्लेशापहः पुत्रः। तमोऽपहः सूर्यः अनाशीरर्थ आरम्भः॥
अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥
<<अपे क्लेशतमसोः>> - अपे क्लेशतमसोः । 'आशिषि हनः' इत्येव सिद्धे किमर्तमिदमित्यत आह — अनाशीरर्थमिति ।