3-2-49 आशिषि हनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि डः
index: 3.2.49 sutra: आशिषि हनः
ड इति वर्तते। आशिषि गम्यमानायां हन्तेर्धातोः कर्मण्युपपदे डप्रत्ययो भवति। तिमिं वध्यात् तिमिहः। शत्रुहः। आशिषि इति किम्? शत्रुघातः। दारावाहनोऽणन्तस्य च टः संज्ञायाम्। दारावुपपदे आङ्पूर्वाद् हन्तेः अण् प्रत्ययो भवति, अन्तस्य च ट कारादेशो भवति, संज्ञायां विषये। दारु आहन्ति दार्वाघाटः। चारौ वा। आङ्पूर्वात् हन्तेश्चारावुपपदे अण्, अन्तस्य वा टकारादेशः। चार्वाघाटः, चार्वाघातः। कर्मणि समि च। कर्मण्युपपदे सम्पूर्वात् हन्तेः धातोः अण् प्रत्ययो भवति, अन्तस्य च वा टकारदेशः। वर्णान् संहन्ति वर्णसङ्घाटः, वर्णसङ्घातः। पदानि संहन्ति पदसङ्घाटः, पदसङ्घातः।
index: 3.2.49 sutra: आशिषि हनः
शत्रुं वध्याच्छत्रुहः । आशिषि किम् । शत्रुघातः ।<!दारावाहनोऽणन्तस्य च टः संज्ञायाम् !> (वार्तिकम्) ॥ दारुशब्दे उपपदे आङ्पूर्वाद्धन्तरेण् टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वाघाटः ।<!चारौ वा !> (वार्तिकम्) ॥ चार्वाघाटः ।<!कर्मणि समि च !> (वार्तिकम्) ॥ कर्मण्युपदे संपूर्वाद्धन्तेरुक्तं वेत्यर्थः । वर्णान्संहन्तीति वर्णसङ्घाटः । पदसङ्घाटः । वर्णसङ्घातः । पदसङ्घातः ।
index: 3.2.49 sutra: आशिषि हनः
आशिषि हनः - आशिषि हनः । कर्मण्युपपदे हन्तेर्डः स्यादाशिषि गम्यायामित्यर्थः । शत्रुघात इति । आसीरभावाड्डाऽभावे अण् । 'हनस्त' इति तत्वम् । दारावाहन इति । वार्तिकमिदम् । दारौ, आहनः, अण्, अन्तस्येति च्छेदः । अण्संनियोगेन टत्वविधानार्थमिदम् । चारौ वेति । वार्तिकमिदम् । चारुशब्दे उपपदे आङ्पूर्वाद्धन्तेरण्, अन्तस्य टो वा स्यादित्यर्थः । कर्मणणि समि चेति । वार्तिकमिदम् । उक्तं वेति । अण्, अन्तस्य ट इत्यर्थः । चारावित्यस्यानुवृत्तिनिवृत्तये कर्मणीत्युक्तिः ।
index: 3.2.49 sutra: आशिषि हनः
आशिषि हनः॥ दाराविति। दारुशब्द इत्यर्थः। शब्दापेक्षया पुंल्लिङ्गः,टविधानार्थ वचनम्, अण्'कर्मण्यण्' इत्येव सिद्धः। अन्तग्रहणं विस्पष्टार्थम्, ठलोऽन्त्यस्यऽ इत्येव सिद्धम्॥