सुपि स्थः

3-2-4 सुपि स्थः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे कः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सुबन्त उपपदे तिष्ठतेः कप्रत्ययो भवति। समस्थः। विषमस्थः। अत्र योगविभागः कर्तव्यः, सुपीति। सुप्याकारान्तेभ्यः कप्रत्ययो भवति। द्वाभ्यां पिबतीति द्विपः। पादपः। कच्छपः। ततः स्थ इति। स्थश्च सुपि कप्रत्ययो भवति। किमर्थमिदम्? कर्तरि पूर्वयोगः। अनेन भावेऽपि यथा स्यात्। आखूनामुत्त्थानम्, आखूत्त्थः। शलभोत्त्थः। इत उत्तरं कर्मणीति च सुपीति च द्वयमप्यनुवर्तते। तत्र सकर्मकेषु धातुषु कर्मणीत्येतदुपतिष्ठते, अन्यत्र सुपीति॥

Siddhanta Kaumudi

Up

सुपीति योगो विभज्यते । सुपि उपपदे आदन्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः । समस्थः । विषमस्थः । ततः - स्थः ॥ सुपि तिष्ठतेः कः स्यात् । आरम्भसामर्थ्याद्भावे । आखूनामुत्थानमाखूत्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सुपि स्थः॥ सुपीति न सप्तमीबहुवचनस्य ग्रहणम्, किं तर्हि? प्रत्याहारस्य;'सुप्तिङ्न्तं पदम्' 'सुप आत्मनः क्यच्' 'सुपो धातुप्रतिपदिकयोः' ,ठव्ययादाप्सुपःऽ इत्यादौ तस्यैव प्रसिद्ध्वात्। द्वाभ्यं पिबतीति। ननु रूढिशब्दा द्विपादयः, ततश्चासन्तमप्यवयवार्तमाश्रित्य कर्मोपपद एव कः करिष्यते? नैतदेवम्; द्वाभ्यां पिबतीत्यादेरवयवार्थस्य सम्भवतोऽपरित्यागेनैव व्युत्पतौ सम्भवत्यामस्याः कल्पनाया अयुक्तत्वात्। यत्र त्वत्यन्तमसम्भवः, युक्ता तत्रैव सा कल्पना, यथा - तैलतपायिकादौ। अनेन भावे यथा स्यादिति। आरम्भसामर्थ्यातावदयं कर्तुरपकृष्यते, न चान्योऽर्थो निर्द्दिश्यते। अनिर्द्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति, स्वार्थस्च धातूनां भाव एव। ननु'घञर्थे कविधानम्' इति भावे कः सिद्धः? सत्यम्; नित्यसमासार्थन्तु वचनम्, अन्यर्था पाक्षिकः षष्ठीसमासः स्याद्। नित्य एव तूपपदसमासो भवति, तथा चाखूनामुत्थानमित्यस्वपदेन विग्रहः कृतः। घञर्थे कविधानमित्यत्र स्थग्रहणं कर्तृवर्जिते कारकेऽपि यथा स्यादिति॥