अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः

3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि गमश्च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संज्ञायामिति नानुवर्तते। अन्त अत्यन्त अध्वन् दूर पार सर्व अनन्त इत्येतेषु कर्मसूपपदेषु गमेर्डप्रत्ययो भवति। अन्तगः। अत्यन्तगः। अध्वगः। दूरगः। पारगः। सर्वगः। अनन्तगः। डकारः टिलोपार्थः। डित्यभस्याप्यनुबन्धकरणसामर्थ्यादिति॥ डप्रकरणे सर्वत्रपन्नयोरुपसंख्यानम्॥ सर्वत्रगः। पन्नगः॥ उरसो लोपश्च॥ उरसा गच्छतीत्युरगः॥ सुदुरोरधिकरणे॥ सुखेन गच्छत्यस्मिन्निति सुगः। दुर्गः॥ निरो देशे॥ निर्गो देशः। अपर आह — ॥ डप्रकरणेऽन्येष्वपि दृश्यत इति॥ स्त्र्यगारगः। ग्रामगः। गुरुतल्पगः॥

Siddhanta Kaumudi

Up

संज्ञयामिति निवृत्तम् । एषु गमेर्डः स्यात् । डित्त्वासामर्थ्यादभस्यापि टेर्लोपः । अन्तं गच्छतीत्यन्तग इत्यादि ।<!सर्वत्रपन्नयोरुपसंख्यानम् !> (वार्तिकम्) ॥ सर्वत्रगः । पन्नं पतितं गच्छतीति पन्नगः । पन्नमिति पद्यतेः क्तान्तं क्रियाविशेषणम् । उरसो लोपश्च ॥ उरसा गच्छतीत्युरगः ।<!सुदूरोरधिकरणे !> (वार्तिकम्) ॥ सुखेन गच्छत्यत्र सुगः । दुर्गः ।<!अन्यत्रापि दृश्यत इति वक्तव्यम् !> (वार्तिकम्) ॥ ग्रामगः ॥<!डे च विहायसो विहादेशो वक्तव्यः !> (वार्तिकम्) ॥ विहगः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः>> - अन्तात्यन्त । इत्यादि व्यक्तम् । सर्वत्रपन्नयोरिति । सर्वत्रशब्दे, पन्नशब्दे चोपपदे गमेर्डस्योपसङ्ख्यानमित्यर्थः उरस इति । उरसि उपपदे गमेर्डः, उरः शब्दान्त्यस्य लोपश्चेति वक्तव्यमित्यर्थः । सुदूरोरिति । सु, दूर् — अनयोरुपपदयोर्गमेर्डः स्यात् अधिकरणे वाच्ये इत्यर्थः । अन्यत्रापि दृश्यत इति । अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यो डो दृश्यते इत्यर्थः । अनेनैव सिद्देसर्वत्रपन्नयो॑रित्यादि प्रपञ्चार्थमेव । एवं च 'सप्तम्यां जनेर्डः' इत्यत्रापिअन्येष्वपि दृश्यते॑ इति प्रपञ्चार्थमेव । डे चेति ।विहायसो विहे॑त्युक्तस्य खज्विषयत्वादिदं वचनम् । विहग इति । खचि तु मुमि विहङ्गम इति रूपम् ।

Padamanjari

Up

अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॥ अनुबन्धकरणसामर्थ्यादिति। श्रवणार्थस्तु डकारो न भवति,'पादस्य पदाज्यातिगोपहतेषु' इति कृतटिलोपस्य डप्रत्ययान्तस्य निर्देशात्। अत्रात्यन्तानन्तग्रहणमनर्थकम्, अन्तशब्दोऽत्र गृह्यते, तेन कर्मणो विशेषणातदन्तविधिर्भविष्यति। उपपदविधौ तु न सर्वत्र तदन्तविधिः, उपपदविधौ तदाद्यादिग्रहणमिति नियमात्। पन्नं पतितं यथा गच्छतीति पन्नगः।'सुदूरोरधिकरणे' इति कर्मणि खलेव भवति - सुगमः, दुर्गम इति। अन्यत्रापि द्दश्यत इति। एवं च सूत्रमपि प्रपञ्चार्थम्॥