संज्ञायां भृतॄवृजिधारिसहितपिदमः

3-2-46 सञ्ज्ञायां भृतॄवृजिधारिसहितपिदमः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मणीति सुपीति च प्रकृतं संज्ञावशाद् यथासंभवं संबध्यते। भृ तॄ वृ जि धारि सहि तपि दम् इत्येतेभ्यो धातुभ्यः संज्ञायां विषये खच् प्रत्ययो भवति। विश्वम्भरा वसुन्धरा। रथंतरं साम। पतिंवरा कन्या। शत्रुंजयो हस्ती। युगंधरः पर्वतः। शत्रुंसहः। शत्रुंतपः। अरिंदमः। संज्ञायामिति किम्? कुटुम्बं बिभर्तीति कुटुम्बभारः॥

Siddhanta Kaumudi

Up

विश्वं बिभर्तीति विश्वम्भरः । विश्वंभरा । रथंतरं साम । इह रथेन तरतीति व्युत्पत्तिमात्रं न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुंजयो हस्ती । युगंधरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । दमिः शमनायां तेन सकर्मक इत्युक्तम् । मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संज्ञायां भृतॄवृजिधारिसहितपिदमः>> - संज्ञायाम् ।ख॑जिति शेषः । भृ, तृ , वृ ,जि, धारि, सहि, तपि, दमि- एषामष्टानं समाहारद्वन्द्वात्पञ्चमी । विआम्भर इति । विष्णोरियं संज्ञा । विआम्भरेति । पृथिव्याः संज्ञा इयम् । रथन्तरमिति । तृधातोः खच् । रथेन तरितृत्वस्य सामविशेषे असंभवादाह — इहेति । वृधातोरुदाहरति — पतिंवरेति । शत्रुञ्जय इति । जिधातोः खच् ।धारी॑ति ण्यन्तग्रहण, तस्योदाहरति — युगन्धर इति । युगं धारयतीति विग्रहः । 'खचि ह्रस्वः' इत्युपधाह्रस्वः । णिलोपः । शत्रुंसह इति । शत्रून् सहते विग्रहः । ह्रस्वादि पूर्ववत् । एवमग्रेऽपि । शत्रुन्तप इति । शत्रून् तपतीति विग्रहः । अरिन्दम इति । अरिषु निग्रहविषये शाम्यतीत्यर्थः । दमिः शमनायामिति । 'दमु उपशमे' इति धातुपाठे उपशमशब्दे शमेण्र्यन्ताद्धञ् । तथा च दाम्यतीत्यस्य उपशमयतीत्यर्थाश्रयणात्सकर्मकत्वमिति माधवादिमते सकर्मकोऽयमित्यर्थः । मतान्तरे त्विति । 'दमु उपशमे' इत्युपशमार्थस्य दमेरकर्मकत्वमिति हरदत्तादिभिरुक्तमित्यर्थः ।

Padamanjari

Up

संज्ञायां भृतृवृजिधारिसहितपिदमः॥ संज्ञावशादित्यादि।'शत्रुन्तपः' इत्यादौ यत्र कर्मार्थानुगमस्तत्र कर्मणीति सम्बध्यते। यत्र तु न रथन्तरमित्यादौ तत्र सुपीति। अरिन्दम इति। अन्तर्भावितण्यर्थो दमिः सकर्मको भवति॥