3-2-45 आशिते भुवः करणभावयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच्
index: 3.2.45 sutra: आशिते भुवः करणभावयोः
अत्र सुपि इत्युपतिष्ठते। आशितशब्दे सुबन्ते उपपदे भवतेर्धातोः करणे भावे चार्थे खच् प्रत्ययो भवति। आशितो भवति अनेन आशितम्भव ओदनः। भावे आशितस्य भवनमाशितम्भवं वर्तते।
index: 3.2.45 sutra: आशिते भुवः करणभावयोः
आशितशब्दे उपपदे भवतेः खच् । आशितो भवत्यनेनाशितंभवः ओदनः । आशितस्य भवनं आशितम्भवः ॥
index: 3.2.45 sutra: आशिते भुवः करणभावयोः
आशिते भुवः करणभावयोः - #आशिते । करणे उदाहरति — आशितो भवत्यनेनेति । भावे उदाहरति — आशितस्य भवनमिति ।
index: 3.2.45 sutra: आशिते भुवः करणभावयोः
आशिते भुवः करणभावयोः॥ अत्र सुपीत्युपतिष्ठते इति। न तु कर्मणीति, भवतेरकर्मकत्वात्। सोपसर्गात्प्राप्त्यर्थाच्च खचा न भवितव्यम्, अनभिधानादिति भावः। आशितशब्दोऽयम् ठश भोजनेऽ इत्यस्मादाङ्पूर्वादविवक्षिते कर्मणि क्तप्रत्ययान्तो गृह्यते - आशितः कर्तेति, यस्याद्यौदातत्वं विधास्यते। यस्तु'ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इति भावकर्माधिकरणेषु क्तः, न तदन्तो गृह्यते, अनभिधानादित्याहुः। अन्ये त्वशेर्ण्यान्तात्प्रयोज्ये कर्मणि क्तप्रत्यये कृते य आशितशब्दः स गृह्यते। एवमाशितः कर्तेति यस्याद्यौदातत्वं तत्रापि प्रयोज्य एव भूतपूर्वगत्या कर्तोच्यते,'गतिबुद्धिप्रत्यवसानार्थ' इति अणौ कर्तुर्णौ कर्मसंज्ञाविधानात्। तथा च कृषन्नित्फाल आशितं कृष्णोतीति आद्यौदातस्यावग्रहो न द्दश्यते। कर्तृग्रहणं तु तत्र भावनिवृत्यर्थमिति। आशितम्भव ओदन इति। यावतौदनेनातिथ्यादिराशितो भवति स एवमुच्यते॥