3-2-44 क्षेमप्रियमद्रे अण् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच् कृञः
क्षेम प्रिय मद्र इत्येतेषु कर्मसूपपदेषुकरोतेरण् प्रत्ययो भवति, चकारात् खच्च। क्षेमकारः। क्षेमंकरः। प्रियकारः। प्रियंकरः। मद्रकारः। मद्रंकरः। वेति वक्त व्ये पुनरण्ग्रहणं हेत्वादिषु टप्रतिषेधार्थम्॥
एषु कृञोऽण् स्यात् । चात् खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि अल्पारम्भाः क्षेमकरा इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ॥
<<क्षेमप्रियमद्रेऽण् च>> - क्षेमप्रिय । ननुक्षेमप्रियमद्रवे॑ति खचो विकल्पविधौ खजभावेकर्मण्य॑णित्यस्य सिद्धत्वादण्ग्रहणं व्यर्थमित्यत आह — वेति वाच्ये इति । हेत्वादिष्विति ।कृञो हेतुताच्छील्यानुलोम्येषु इति विहित इत्यर्थः । कथं तर्हीति । 'कृञो हेतु' इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम्, खचि तु मुम् स्यादित्याक्षेपः । समाधत्ते — कर्मणः शेषत्वेति । तथा च कर्मोपपदाऽभावादणभावे चाऽजिति भावः । क्षेमङ्करीति तु गौरादित्वान्ङीषित्याहुः ।