3-2-43 मेघर्तिभयेषु कृञः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच्
मेघ ऋति भय इत्येतेषु कर्मसूपपदेषु कृञः खच् प्रत्ययो भवति। मेघंकरः। ऋतिंकरः। भयंकरः। उपपदविधौ भयादिग्रहणं तदन्तविधिं प्रयोजयति। अभयंकरः॥
मेघङ्करः । भयंकरः । भयशब्देन तदन्तविधिः । अभयङ्करः ॥
मेघर्तिभयेषु कृञः॥ करोतेरिति। कृणोतेस्तु पूर्ववदेवाग्रहणम्। शिवंकर इत्यपि च्छन्दसि द्दश्यते - शिव एको ध्येयः शिवंकर इति॥