वाचि यमो व्रते

3-2-40 वाचि यमः व्रते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वाक् शब्दे कर्मण्युपपदे यमेर्धातोः खच् प्रत्ययो भवति व्रते गम्यमाने। व्रत इति शास्त्रितो नियम उच्यते। वाचंयम आस्ते। व्रत इति किम्? वाग्यामः॥

Siddhanta Kaumudi

Up

वाक् शब्दे उपपदे यमेः खच् स्याद्व्रते गम्ये ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वाचि यमो व्रते>> - वाचि यमो व्रते । इत्यादि व्यक्तम् ।

Padamanjari

Up

वाचि यमो व्रते॥ शास्त्रि इति। शास्त्रशब्दाद्विधाने धात्वर्थे णिच्, तदन्तात्कर्मणि क्तः। शास्त्रे विहितः, शास्त्रेण वाउशास्त्रितः। नियम इति। सङ्कल्पविशेषः। वाचंयम इति।'वाचंयमपुरन्दरौ च' इति पूर्वपदस्यामन्तत्वम्। तत एव तर्हि निपातनात्प्रत्ययो भविष्यति। व्रतादन्यत्रापि तर्हि प्राप्नोति? तत्रैव ब्रतग्रहणं करिष्यते -'वाचंयमो ब्रते पुरन्दरश्च' इति, तदेतच्चिन्त्यप्रयोजनम्। एतेन पुरन्दरो व्याख्यातः। वाग्याम इति। योऽशक्त्यादिना वाचं यच्छति तत्राणेव भवति॥