पूःसर्वयोर्दारिसहोः

3-2-41 पूः सर्वयोह् दारिसहोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच्

Kashika

Up

index: 3.2.41 sutra: पूःसर्वयोर्दारिसहोः


पुर् सर्व इत्येतयोः कर्मणोः उपपदयोः यथासङ्ख्यं दारिसहोः धात्वोः खच् प्रत्ययो भवति। पुरं दारयति पुरन्दरः। सर्वंसहो राजा। भगे च दारेरिति वक्तव्यम्। भगन्दरः।

Siddhanta Kaumudi

Up

index: 3.2.41 sutra: पूःसर्वयोर्दारिसहोः


पुरं दारयतीति पुरन्दरः । सर्वंसहः । सहिग्रहणमसंज्ञार्थम् ॥<!भगे च दारेरिति काशिका !> (वार्तिकम्) ॥ बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ॥

Balamanorama

Up

index: 3.2.41 sutra: पूःसर्वयोर्दारिसहोः


पूःसर्वयोर्दारिसहोः - पूः सर्वयोर्दारिसहोः । दारिसहोरिति पञ्चम्यर्थे षष्ठी । पुर्शब्दे सर्वशब्दे च कर्मवाचिन्युपपदे दारेः सहेश्च खजित्यर्थः । यथासङ्ख्यमन्वयः ।दारी॑ति ण्यन्तस्य ग्रहणम् । पुरन्दर इति । पुरं दारयतीति विग्रहे दारेः खचि णिलोपे 'खचि ह्रस्वः' इत्युपधाह्रस्वे सुपी लुकिवाचंयमपुरन्दरौ चे॑ति खचो विकल्पविधौ खजभावेकर्मण्य॑णित्यस्य सिद्धत्वादण्ग्रहमं व्यर्थमित्यत आह — असंज्ञार्थमिति । भगे चेति । इत्यादि स्पष्टम् । ऋतिह्कर इति । ऋतिर्गमनम् । अभयह्करशब्दं साधयितुमाह — भयशब्देन तदन्तविधिरिति । इदं चयेन विधि॑रित्यत्र भाष्ये स्पष्टम् ।

Padamanjari

Up

index: 3.2.41 sutra: पूःसर्वयोर्दारिसहोः


पूः सर्वयोर्दारिसहोः॥'द्द विदारणे' इत्यस्य ग्रहणम्; न'द्द भये' 'द्दङ् आदरे' - -इत्येतयोरित्युपदेशः। असंज्ञार्थं सहिग्रहणम्, संज्ञायां तु वक्ष्यति। सर्वेसहो राजेति। सर्व संपादयितुं समर्थ इत्यर्थः॥