द्विषत्परयोस्तापेः

3-2-39 द्विषत्परयोः तापेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच्

Kashika

Up

index: 3.2.39 sutra: द्विषत्परयोस्तापेः


द्विषत्परयोः कर्मणोरुपपदयोः तापेः धातोः खच् प्रत्ययो भवति। तप दाहे चुरादिः, तपसन्तापे भ्वादिः, द्वयोरपि ग्रहणम्। द्विषन्तं तापयति द्विषन्तपः। परन्तपः। द्विषत्परयोः इति द्वितकारको निर्देशः। तेन स्त्रियां न भवति। द्विषतीं तापयति द्विषतीतापः।

Siddhanta Kaumudi

Up

index: 3.2.39 sutra: द्विषत्परयोस्तापेः


खच्स्यात् ॥

Balamanorama

Up

index: 3.2.39 sutra: द्विषत्परयोस्तापेः


द्विषत्परयोस्तापेः - द्विषन्तप इति । 'अरुर्द्विष' दित तकारात्प्राक् मुम् । परन्तप इति । परः - शत्रुः । ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि 'द्विषतीतप' इति स्यात् 'द्विषतीताप' इत्यण्णन्तं न स्यादित्यत आह — घटघटीति ।शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसङ्ख्यान॑मित्यत्र घटग्रहणेनैव लिङ्गविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धे पुनर्घटीग्रहणाल्लिङ्गविसिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः ।उपपदविधौ लिङ्गविशिष्टपरिभाषा ने॑ति ङ्याप्पसूत्रे भाष्याच्चेत्यपि द्रष्टव्यम् ।

Padamanjari

Up

index: 3.2.39 sutra: द्विषत्परयोस्तापेः


द्विपत्परयोस्तापेः॥ द्विषन्तप इति। मुमि संयोगान्तलोपः। द्वितकारको निर्देश इति। तत्रैकेन द्विषच्छब्दो विशेष्यते - -तकारान्तो यो द्विषच्छब्द इति, सौत्रत्वान्निर्द्देशस्य विशेषणस्य परनिपातः। तेन स्त्रियां न भवतीति। अन्यथा लिङ्गविशिष्टपरिभाषया स्यादेव प्रसङ्ग इति भावः॥