आतोऽनुपसर्गे कः

3-2-3 आतः अनुपसर्गे कः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आकारान्तेभ्योऽनुपसर्गेभ्यः कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। गोदः। कम्बलदः। पार्ष्णित्रम्। अङ्गुलित्रम्। अनुपसर्ग इति किम्? गोसंदायः। वडवासंदायः॥

Siddhanta Kaumudi

Up

आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाऽण् । आतो लोपः । गोदः । पार्ष्णित्रम् । अनुपसर्गे किम् । गोसंदायः ।<!कविधौ सर्वत्र संप्रसारणिभ्यो डः !> (वार्तिकम्) ॥ ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणात् आतश्चोपसर्गे <{SK2898}> । आह्वः । प्रह्वः ॥

Laghu Siddhanta Kaumudi

Up

आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणोऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम्? गोसन्दायः। <<मूलविभुजादिभ्यः कः>> (वार्त्तिकम्)। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणोऽयम्। महीध्रः। कुध्रः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आतोऽनुपसर्गे कः>> - आतोऽनुपसर्गे कः । पाष्णत्रमिति । पाष्णः — पादमूलभागः । तं त्रायते विग्रहः । 'त्रैङ् पालने' आत्वे कृते कः । गोसंदाय इति । अणि - आतो युक् । कविधौ सर्वत्रेति । वार्तिकमिदम् । सर्वत्र कप्रत्ययविधौ संप्रसारणार्हेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः । ब्राहृज्य इति । 'ज्या वयोहानौ' अस्माड्डः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । अत्र कप्रत्यये सति कित्त्वात् 'ग्रहिज्ये' ति संप्रसारणं प्रसक्तम्, अतो ड एव, नतु कः । सर्वत्रेति । उपसर्गे उपपदे आतोऽपि ड एव, नतु 'आतश्चोपसर्गे' इति कः,॒सर्वत्र॑ ग्रहणादित्यन्वयः । अन्यथाअनन्तरस्य विधि॑रिति न्यायात्आतोऽनुपसर्गे॑इति कं बाधित्वा ड एव । तस्य अकित्त्वाद्यजादिलक्षणं संप्रसारणं न । सुपि स्थः । योगो विभज्यते इति । इदं भाष्ये स्पष्टम् । तत्रसुपी॑त्यंशं व्याचष्टे — सुप्युपपदे इति इदं केवलोपसर्ग व्यर्थम्, 'आतश्चोपसर्गे' इत्येव सिद्धेः, कर्मण्युपपदेऽप्येतद्व्यर्तमेव, 'आतोऽनुपसर्गे कः' इत्यारम्भादिति मत्वोदाहरति — द्वाभ्यामिति । तत इति ।सुपी॑त्यंशस्य व्याख्यानान्तरं 'स्थ' इत्यंशो व्याख्यायत इत्यर्थः । ननुसुपी॑त्यंशेनैव सिद्धे किमर्थमिदमित्यत आह — आरम्भसामर्थ्यादिति । कर्तरि 'सुपि' इति पूर्वेण स्दधेकर्तरि कृ॑दिति नानुवर्तते । अनिर्दिष्टार्थत्वात्गुप्तिज्किद्भ्यः स॑ नित्यादिवत्स्वार्थिकोऽयम्, स्वार्थश्च भाव एवेति भाष्ये स्पष्टम् । न च एवं सतिघञर्थे कविधान॑मित्येव सिद्धमिति वाच्यम्, नित्योपपदसमासार्थत्वात् । अत एव ल्युडन्तेन अस्वपदविग्रहं दर्शयन्नाह - आखूनामुत्थानमाखूत्थ इति ।

Padamanjari

Up

आतोऽनुपसर्गे कः॥ कविधौ सर्वत्र प्रसारणिभ्यो डो वक्तव्यः। संप्रसारणभाजःऊउप्रसारणिनः।'ज्या वयोहानौ' ब्रह्म जिनातीति ब्रह्मज्यः, सर्वत्रग्रहणान्नावश्यमिहैव ठातश्चोपसर्गेऽआह्वः प्रह्वः, के हि संप्रसारणप्रसङ्गः, आह्व अ इति स्थिते संप्रसारणे पूर्वत्वे च कृते उवङदेशे आहुवः प्रहुव इति प्राप्नोति, एवं ब्रह्मजिय इति प्राप्नोति। ननु संप्रसारणे कृते आतो लोपस्तस्य स्थानिवद्भावादियणुवङै न भविष्यतः, लोपो न सिद्ध्यति - अन्तरङ्गत्वात्पूर्वत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय इति? एवं तर्हि प्रागेव संप्रसारणादातो लोपो भविष्यति, परत्वाद् नित्यं संप्रसारणम्, कृताकृतप्रसङ्गित्वात्ऽ आतो लोपस्त्वनित्यः, कृते संप्रसारणे पूर्वत्वेन बाद्ध्यते - यस्य च निमितं लक्षणान्तरेण विहन्यते तदनित्यम्। तदेवं परत्वादातो लोपः, ततः संप्रसारणम्, तत इयणुवङै प्रसक्तावाल्लोपस्य स्थानिवत्वान्न भविष्यतः। ननु योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः, आदिष्टाच्चैषोऽचः पूर्वम् - इदानीमेव ह्युक्तं पूर्वमल्लोपः पश्चात् संप्रसारणमिति? एवं तर्ह्याकारलोपस्यासिद्धत्वादुवङ् न भविष्यति। इहापि तर्हि जुहुवतुः जुहुवतुः आल्लोपस्यासिद्धत्वादुवङ् न प्राप्नोति? आभीयमसिद्धत्वमनित्यमित्यत्र न भविष्यति। अथ वा'संप्रसारणाच्च' ठेडः पदान्तात्ऽ इत्यत्र एङ् इति योगविभागः - संप्रसारणादेङ् पिरतः पूर्वपरयोः पूर्वमेकादेशो भवतीति। किमर्थमिदम्, न'संप्रसारणाच्च' इत्येव सिद्धम्? ज्ञापनार्थम् - -यत्र संप्रसारणात्पर एङ् संभवति तत्र ठादेच उपदेशेऽशितिऽ इत्यात्वं न भवतीति। यदि स्यात्पूर्वत्वेन तस्य निवृत्तिविधानमनुपपन्नं स्यात्। तेन जुहुवतुरित्यत्रानैमितिकत्वेनान्तरङ्गमप्यात्वमकृत्वा एङ्भावादेव लिटि विहिते संप्रसारणे पूर्वत्वे न स्थानिवत्वं नासिद्धत्वमिति सिद्धमिष्टम्। आह्वः, प्रह्वः, ब्रह्मज्य इत्यत्र त्वाकारान्तलक्षणः प्रत्ययो नासत्यात्वे भवितुमर्हतीति पूर्वमात्वम्, ततः प्रत्ययः, आल्लोपः, संप्रसारणम्, असिद्धत्वादियणुवङेरभावः॥