3-2-38 प्रियवशे वदः खच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि
index: 3.2.38 sutra: प्रियवशे वदः खच्
प्रिय वश इत्येतयोः कर्मणोः उपपदयोः वदेः धातोः खच् प्रत्ययो भवति। प्रियं वदतीति प्रियंवदः। वशंवदः। चकारः खचि ह्रस्वः 6.4.94 इति विशेषणार्थः। खकारो मुमर्थः। प्रत्ययान्तरकरणमुत्तरार्थम्। खच्प्रकरणे गमेः सुप्युपसङ्ख्यानम्। मितङ्गमो हस्ती। मितङ्गमा हस्तिनी। विहायसो विह च। विहायसा गच्छति विहङ्गमः। खच्च डिद्वा वक्तव्यः। विहङ्गः, विहङ्गमः। डे च विहायसो विहादेशो वक्तव्यः। विहगः।
index: 3.2.38 sutra: प्रियवशे वदः खच्
प्रियंवदः । वशंवदः ॥<!गमेः सुपि वाच्यः !> (वार्तिकम्) ॥ असंज्ञार्थमिदम् । मितङ्गमो हस्ती ।<!विहायसो विह इति वाच्यम् !> (वार्तिकम्) ।<!खच्च डिद्वा वाच्यः !> (वार्तिकम्) ॥ विहंगमः । विहङ्गः । भुजंगमः । भुजंगः ॥
index: 3.2.38 sutra: प्रियवशे वदः खच्
प्रियंवदः। वशंवदः॥
index: 3.2.38 sutra: प्रियवशे वदः खच्
प्रियवशे वदः खच् - प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः । खशि प्रकृते खज्विधेरुत्तरसूत्रे प्रयोजनं वक्ष्यते । गमेः सुपि वाच्य इति । 'ख' जिति शेषः । ननु संज्ञायामित्यनुवृत्तौगमश्चे॑ति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदं वार्तिकमित्यत आह - असंज्ञार्थमिदमिति । विहायस इति । विहायः शब्दः आकासे वर्तते । तस्मिन्नुपपदे गमेः खच् ।गमश्चे॑ति वक्ष्यमाणसूत्रेण , पूर्ववार्तिकेन वा सिद्धः खच्चे॑त्यनूद्यते । प्रकृतेर्विहायश्शब्दस्य विहादेशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः । विहङ्ग इति । डित्त्वपक्षे तत्सामर्थ्यादभस्यापि टेर्लोपः । विहङ्गम इति । विहायसा गच्छतीति विग्रहः । भुजङ्गम इति । भुजैर्गच्छतीति विग्रहः । द्विषत्परयोः । 'तप दाहे' चुरादिः, 'तप सन्तापे' भ्वादिः । द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः । खच् स्यादिति । द्विषत्, पर अनयोः कर्मणोरुपपदयोस्तापेः खजित्यर्थः । द्विषत् तापि अ इति स्थिते आह —
index: 3.2.38 sutra: प्रियवशे वदः खच्
प्रियवशे वदः खच्॥