उग्रम्पश्येरम्मदपाणिन्धमाश्च

3-2-37 उग्रम्पश्येरम्मदपाणिन्धमाः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते। उगं्र पश्यतीत्युग्रम्पश्यः। इरया माद्यतीतीरम्मदः। पाणयो ध्मायन्त एष्विति पाणिन्धमाः पन्थानः॥

Siddhanta Kaumudi

Up

एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रंपश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरंमदो मेघज्योतिः । इह निपातनात् न श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिंधमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उग्रम्पश्येरम्मदपाणिन्धमाश्च>> - उग्रम्पश्य इति । खशि शप्, पश्यादेशः । इराशब्दस्य विवरणम् — उदकमिति । इरम्मद इति ।खित्यनव्ययस्ये॑ति ह्रस्वः । मदेर्दैवादिकत्वच्छ्यनमाशङ्क्य आह — निपातनाच्छ्यन्नेति । पाणिन्धम इति । शपिपाघ्रे॑ति धमादेशः ।

Padamanjari

Up

उग्रम्पश्येरम्मदपाणिन्धमाश्च॥ उग्र पश्यतीति। क्रियाविशेषणमेतत्। इरम्मद इति।'मदी हर्षे' दिवादित्वाच्छयनि प्राप्ते तदभावो निपातनात्। इराऊदकम्। पाणिन्धमाः पन्थान इति। ते पुनर्येषु गच्छद्भिः सर्पाद्यपनोदनाय पाणयो ध्मायन्तेउशब्द्यन्ते॥