असूर्यललाटयोर्दृशितपोः

3-2-36 असूर्यललाटयोः दृशितपोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

असूर्य ललाट इत्येतयोः कर्मणोरुपपदयोर्दृशितपोर्धात्वोः खश् प्रत्ययो भवति। असूर्यम्पश्या राजदाराः। ललाटन्तप आदित्यः। असूर्य इति चासमर्थसमासोऽयम्, दृशिना नञः संबन्धात्, सूर्यं न पश्यन्तीति। गुप्तिपरं चैतत्। एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्तीति॥

Siddhanta Kaumudi

Up

असूर्यमित्यसमर्थसमासः । दृशिना नञः संबन्धात् । सूर्यं न पश्यन्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<असूर्यललाटयोर्दृशितपोः>> - असूर्यललाट । दृशितपोरिति पञ्चम्यर्थे षष्ठी । असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः । असूर्यमितीति ।असूर्यपश्या॑इत्युदाहरणे असूर्यमित्यसमर्थसमासः सौत्र इत्यर्थः । कुतोऽसामर्थ्यमित्यत आह — दृशिनेति । सूर्यं न पश्यन्तीत्यर्थे नञो दृशिनाऽन्वितत्वेन सूर्यशब्देनाऽन्वयाऽभावादित्यर्थः । ललाटन्तपःसूर्य इति । ललाटं तपतीति विग्रहः । सूर्य पश्यतो ललाटस्य अवश्यं तापादिति भावः ।

Padamanjari

Up

असूर्यललाटयोर्द्दशितपोः॥ असूर्यम्पश्या इति। पाघ्रादिसूत्रेण पश्यादेशः। गुप्तपरं चैतदिति। यद्वचनम् - ठसूर्यम्पश्या राजदाराःऽ इति, एतद् गुप्तिप्रधानम्; तेन सत्यपि सूर्यदर्शने प्रयोगो न विरुद्ध्यत इति भावः। गुप्तिपरत्वमेव प्रकटयति एवं नामेति॥