3-2-35 विध्वरुषोः तुदः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश्
index: 3.2.35 sutra: विध्वरुषोस्तुदः
विधु अरुसित्येतयोः कर्मणोरुपपदयोः तुदेर्धातोः खश् प्रत्ययो भवति। विधुन्तुदः राहुः। अरुनतुदः।
index: 3.2.35 sutra: विध्वरुषोस्तुदः
विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः ॥
index: 3.2.35 sutra: विध्वरुषोस्तुदः
विध्वरुषोः तुदः - विध्वरुषोस्तुदः । विधु, अरुस् अनयोः कर्मणोरुपपदयोस्तुदः खशित्यर्थः । विधुंतुद इति । विधुश्चन्द्रः, तं तुदतीति विग्रहः । राहुरित्यर्थः । अरुस्शब्दे उकारादुपरि मुमि कृते सकारस्य संयोगान्तलोप इत्यर्थः । अरुन्तुद इति । अरुर्मर्म, तत्तुदन्तीति विग्रहः ।
index: 3.2.35 sutra: विध्वरुषोस्तुदः
विध्वरुषोस्तुदः॥ अरुन्तुद इति। ठरुर्द्विषदजन्तस्य मुम्ऽ इति उकारात्परो मुम्, संयोगान्तस्य लोपः॥