मितनखे च

3-2-34 मितनखे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश् पचः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मित नख इत्येतयोः कर्मणोरुपपदयोः पचेः खश् प्रत्ययो भवति। अपरिमाणार्थ आरम्भः। मितं पचति मितम्पचा ब्राह्मणी। नखम्पचा यवागूः॥

Siddhanta Kaumudi

Up

मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मितनखे च>> - मितनखे च । मिते नखे च कर्मण्युपपदे पचेः खशित्यर्थः । नखानां विक्लित्त्यसंभवादाह — पचिरत्रेति ।

Padamanjari

Up

मितनखे च॥ नखम्पचेति। पचिरत्र तापवचनः॥