3-2-33 परिमाणे पचः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश्
index: 3.2.33 sutra: परिमाणे पचः
परिमाणं प्रस्थादि, तस्मिन् कर्मण्युपपदे पचेः खश् प्रत्ययो भवति। प्रस्थं पचति प्रस्थंपचा स्थाली। द्रोणंपचः। खारिंपचः कटाहः।
index: 3.2.33 sutra: परिमाणे पचः
प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ॥
index: 3.2.33 sutra: परिमाणे पचः
परिमाणे पचः - परिमाणे पचः । परिमाणं प्रस्थादि । तस्मिन् कर्मण्युपपदे पचेः खशित्यर्थः । खारिम्पचेति । 'खित्यनव्ययस्य' इति ह्रस्वः । मुम् ।
index: 3.2.33 sutra: परिमाणे पचः
परिमाणे पचः॥ परिमाणशब्दः काष्ठादिनिर्मिते प्रस्थादौ वर्तते, न तस्य लिक्लेदवाचिना पचिना कर्मत्वेनान्वयः। अतो न स्वरूपग्रहणम्, किं तर्हि? तद्विशेषाः प्रस्थादयो गृह्यन्ते, ते च परिमेये परिमेये व्रीह्यादौ च वर्तन्ते। तत्र परिमाणनिष्ठानां न पचिनान्वय इति परिमेयनिष्ठेषु प्रत्ययः। न तर्हि परिमाणवाचित्वम्, न; परिमामाध्यारोपेण परिमेये प्रस्थादिशब्दस्य प्रवृतेः॥