3-2-32 वहाभ्रे लिहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश्
वह अभ्र इत्येतयोः कर्मणोरुपपदयोर्लिहेर्धातोः खश् प्रत्ययो भवति। वहं लेढीति वहंलिहो गौः। अभ्रंलिहो वायुः॥
वहः स्कन्धस्तं लेढीति वहंलिहो गौः । अदादित्वाच्छपो लुक् । खशो ङित्वान्न गुणः । अभ्रंलिहो वायुः ॥
<<वहाभ्रे लिहः>> - वहाभ्रे लिहः । वहे अभ्रे च कर्मण्युपपदे लिहः खशित्यर्थः । वहशब्दस्य विवरणम् — स्कन्ध इति । शपो लुगिति । खशः शित्त्वेन सार्वधातुकत्वात्कृतस्य शपो लुगित्यर्थः ।