उदि कूले रुजिवहोः

3-2-31 उदि कूले रुजिवहोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश्

Kashika

Up

index: 3.2.31 sutra: उदि कूले रुजिवहोः


रुजो भङ्गे, वह प्रापणे इत्येताभ्यामुत्पूर्वाभ्यां कूले कर्मणि उपपदे खश् प्रत्ययो भवति। कूलमुद्रुजतीति कूलमुद्रुजो रथः। कूलमुद्वहः।

Siddhanta Kaumudi

Up

index: 3.2.31 sutra: उदि कूले रुजिवहोः


उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः ॥

Balamanorama

Up

index: 3.2.31 sutra: उदि कूले रुजिवहोः


उदि कूले रुजिवहोः - उदि कूले । उदीति दिग्योगपञ्चम्यर्थे सप्तमी । रुजिवहोरिति पञ्चम्यर्थे षष्ठी । 'रुजो भङ्गे' तुदादिः । अत्र रुजेः सकर्मकत्वात्कर्मण्युपपदे इति लब्धं, तेन कूलं विशेष्यते, न तू च्छब्दः, तस्याऽसत्त्ववाचित्वात् । तदाह — उत्पूर्वाभ्यामित्यादि । कूलमुद्रुज इति । सुपो लुकि मुमिति भावः ।

Padamanjari

Up

index: 3.2.31 sutra: उदि कूले रुजिवहोः


उदि कूले रुजिवहोः॥ यत्र प्रत्येकमुपपदत्वमिच्छति तत्र समुदायात्सप्तमीमुच्चारयति, यथा - नाडीमुष्ट।लेरिति। इह तु विपर्ययः कृतः; तस्मात् ठुदिऽ इति सत्सप्तमी।'कूले' इति त्वर्थनिरपेक्षैवोपपदसंज्ञायां लिङ्गम्। तत्र च'ते प्राग्धातोः' इति उच्छशब्दस्य धातोः प्राक् प्रयोगः। ततः पूर्वः कूलशब्दः। तदेतद्दर्शितम् - उत्पूर्वाभ्यां कूले कर्मण्युपपद इति॥