3-2-30 नाडीमुष्ट्योश्च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश् ध्माधेटोः
नाडी मुष्टि इत्येतयोः कर्मणोरुपपदयोर्ध्माधेटोः खश् प्रत्ययो भवति। अत्रापि घ्यन्तस्यापूर्वनिपातो लक्षणव्यभिचारचिह्नम्, तेन संख्यातानुदेशो न भवति। नाडिन्धमः। मुष्टिन्धमः। नाडिन्धयः। मुष्टिन्धयः। अनुक्त समुच्चयार्थश्चकारः। घटिन्धमः। घटिन्धयः। खारिन्धमः। खारिन्धयः। वातन्धमः पर्वतः। वातन्धयः॥
एतयोरुपपदयोः कर्मणोर्ध्माधेटोः खश् स्यात् ॥ यथासंख्यंनेष्यते ॥ नाडिन्धमः । नाडिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः ।<!घटीखारीखरीषूपसंख्यानम् !> (वार्तिकम्) ॥ घटिन्धमः । घटिन्धय इत्यादि ॥ खारी परिमाणविशेषः । खरी गर्दभी ॥
नाडीमुष्ट।लेश्च॥ घटिन्धमः, खरिन्धम इति। घटीउघटः, खरीउगर्द्दभी, जातिलक्षणो ङीष्। खारीत्यन्ये पठन्ति स च परिमाणवचनः। वातशब्दो न द्दष्टः॥