ह्वावामश्च

3-2-2 ह्वावामः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<ह्वेञ् स्पर्धायां शब्दे च>>,<<वेञ् तन्तुसन्ताने>>,<<माङ् माने>> इत्येतेभ्यश्च कर्मण्युपपदेऽण् प्रत्ययो भवति। कप्रत्ययस्यापवादः। स्वर्गह्वायः। तन्तुवायः। धान्यमायः॥

Siddhanta Kaumudi

Up

अण् स्यात् । कापवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ह्वावामश्च>> - ह्वावामश्च ।ह्वेञ् स्पर्धायाम् 'वेञ् तन्तुसन्ताने' अनयोः कृतात्वयोर्निर्देशः, 'माङ् माने' एषां द्वन्द्वात्पञ्चम्येकवचनम् । एभ्य इति । कर्मण्युपपदे एभ्योऽण् स्यादित्यर्थः । ननुकर्मण्य॑णित्येव सिद्धे किमर्थमिदमित्यत आह — कापवाद इति । 'आतोऽनुपसर्गे कः' इत्यस्याऽणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः । माङ्मेङोरिह ग्रहणं, नतु 'मा माने' इत्यस्य, अकर्मकत्वात् । स्वर्गह्वाय इति । यद्यपि पराभिभवेच्छायां स्पद्र्धायां परिभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्ग्रहादकर्मक इत्युक्तम्, तथापि इहाऽभिभवेच्छा धात्वर्थः । स्वर्गमभिभवितुं वाञ्छतीत्यर्थः । अन्तरङ्गत्वादात्वे कृते आतो युक् । एवमग्रेऽपि ।

Padamanjari

Up

ह्वावमश्च॥