3-2-28 एजेः खश् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि
<<एजृ कम्पने>> इत्यस्माण् ण्यन्तात् कर्मण्युपपदे खश् प्रत्ययो भवति। खकारो मुमर्थः। शकारः सार्वधातुकसंज्ञार्थः। अङ्गमेजयति अङ्गमेजयः। जनमेजयः॥ खश्प्रकरणे वातशुनीतिलशर्धेष्वजधेट्तुदजहातीनामुपसंख्यानम्॥ वातमजा मृगाः। शुनिन्धयः। तिलन्तुदः। शर्धञ्जहा माषाः॥
ण्यन्तादेजेः खश् स्यात् ॥
ण्यन्तादेजेः खश् स्यात्॥
<<एजेः खश्>> - #एजेः खश् । एजेरिति ण्यन्तस्य एजृधातोग्र्रहणम्, न त्विका निर्देशः, व्याख्यानादिति भावः । खकारशकारावितौ । कर्मण्युपपदे इत्यपि ज्ञेयम् ।
एजेः खश॥ ण्यन्तादिति। एजेस्त्वयमिका निर्देशो न भवति; खशः शित्करणात्। तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति। न चैजेः प्रकृत्यन्तरस्य शपि सत्यसति वा विशेषोऽस्ति। न चेवमिहार्थत्वे सम्भवति, केवलोतरार्थत्वं युक्तम्। सित्करणं मुमर्थमिति। खित्कार्योपलक्षणमेतत्। शुनिन्धयः नाडिन्धयः, नासिकन्धय इति ह्रस्वत्वमपि प्रयोजनम्। शकारः सावधातुकार्थ इति। सार्वधातुकसंज्ञार्थ इत्यर्थः। वातशुनीत्यादि। वातादिषु यथासंख्यमुपपदेषु अजादिभ्यो धातुभ्यः खश् प्रत्ययो भवति। शर्द्धजहा इति। ठोहाक् त्यागेऽ जुहोत्यादित्वाच्छपः श्लौ द्विर्वचने'श्नाभ्यस्तयोरातः' इत्याकारलोपः॥