छन्दसि वनसनरक्षिमथाम्

3-2-27 छन्दसि वनसनरक्षिमथाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि इन्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<वन षण संभक्त ौ>> <<रक्ष पालने>> <<मथे विलोडने>> एतेभ्यः कर्मण्युपपदे छन्दसि विषय इन् प्रत्ययो भवति। ब्र॒ह्म॒वनिं॑ त्वा क्षत्र॒वनि॑म् (तै०सं० १.३.१.२)। गो॒सनिं॒ वाच॑मुदेय॒म् (शौ०सं० ३.२०.१०)। यौ प॑थि॒रक्षी॒ श्वानौ॑ (शौ०सं० ८.१.९)। ह॑वि॒र्मथी॑नाम॒भ्या॒ विवा॑सताम् (ऋ० ७.१०४.२१)॥

Siddhanta Kaumudi

Up

एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनिं त्वा क्षत्रवनिम् (ब्रह्मवनिं॑ त्वा क्षत्र॒वनि॑म्) । उत नो गोषणिं धियम् (उ॒त नो॑ गो॒षणिं॒ धि॒य॑म्) । ये पथां पथिरक्षयः (ये प॒थां प॑थि॒रक्ष॑यः) । चतुरक्षौ पथिरक्षी (च॒तु॒र॒क्षौ प॑थि॒रक्षी॑) । हविर्मथीनामभि (हवि॒र्मथी॑नाम॒भि) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

च्छन्दसि वनसनरक्षिमथाम्॥ वन षण संभक्ताविति। गणे सहपठितयो र्भौवादिकयोरेव ग्रहणम्, न तु'वनु याचने' 'षणु दाने' इति तानादिकयोरिति भावः। अत्र साहचर्यमेव हेतुः, निरनुबन्धकत्वं च। ब्रह्मवनिमिति। ब्रह्म वनति, क्षत्रं वनतीति विवक्षयामिन् प्रत्ययः, तदन्ताद् द्वितीयैकवचनम्। गौसनिमिति। गांसनतोति विग्रहः। पथिरक्षी इति। पन्थानं रक्षत इति विग्रहः। हविर्मथन्तीति हविर्मथयस्तेषां हदिर्मथीनाम्॥