फलेग्रहिरात्मम्भरिश्च

3-2-26 फलेग्रहिः आत्मंबरिः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि इन्

Kashika

Up

index: 3.2.26 sutra: फलेग्रहिरात्मम्भरिश्च


फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते। फलशब्दस्य उपपदस्य एकारान्तत्वम् इन्प्रत्ययश्च ग्रहेर्निपात्यते। फलानि गृह्णातीति फलेग्रहिर्वृक्षः। आत्मशब्दस्य उपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते। आत्मानं बिभर्ति आत्मम्भरिः। अनुक्तसमुच्चयार्थश्चकारः। कुक्षिम्भरिः। उदरम्भरिः।

Siddhanta Kaumudi

Up

index: 3.2.26 sutra: फलेग्रहिरात्मम्भरिश्च


फलानि गृह्णाति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भमुदरम्भरयश्चकोरा इति मुरारिः ॥

Balamanorama

Up

index: 3.2.26 sutra: फलेग्रहिरात्मम्भरिश्च


फलेग्रहिरात्मम्भरिश्च - फलेघिः । ग्रहेरिन्निति । नतु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः । मुमागम इति । आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह — चात्कुक्षम्भरिरिति । भाष्ये तुभृञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्य॑मिति स्थितम् ।स्यादवन्ध्यः फलेग्रहिः॑ इति वृक्षपर्याये अमरः ।उभावात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके॑ इति विशेष्यनिघ्नवर्गे । उदरम्भरिशब्दं समर्थयितुमाह — चान्द्रास्त्विति ।

Padamanjari

Up

index: 3.2.26 sutra: फलेग्रहिरात्मम्भरिश्च


फलेग्रहिरात्मम्भरिश्च॥ उपपदस्यैकारान्तमिति। च्छन्दस्यकारान्तत्वमपि द्दश्यते - या वनस्पतीनां फलग्रहिरिति। स कुक्षिम्भरिवच्चकारेण समुच्चेतव्यः॥