हरतेर्दृतिनाथयोः पशौ

3-2-25 हरतेः दृतिनाथयोः पशौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि इन्

Kashika

Up

index: 3.2.25 sutra: हरतेर्दृतिनाथयोः पशौ


दृति नाथ इत्येतयोः कर्मणोरुपपदयोः हरतेर्धातोः पशौ कर्तरि इन् प्रत्ययो भवति। दृतिं हरति दृतिहरिः पशुः। नाथहरिः पशुः। पशौ इति किम्? दृतिहारः। नाथहारः।

Siddhanta Kaumudi

Up

index: 3.2.25 sutra: हरतेर्दृतिनाथयोः पशौ


दृतिनाथयोरुपपदयोर्हृञ इन् स्यात्पशौ कर्तरि । दृतिं हरतीति दृतिहरिः । नाथं नासारज्जुं हरतीति नाथहरिः । पशौ किम् । दृतिहारः । नाथहारः ॥

Padamanjari

Up

index: 3.2.25 sutra: हरतेर्दृतिनाथयोः पशौ


हरतेर्द्दतिनाथमोः पशौ॥ पशौ कर्तरीति। एतेन प्रत्ययार्थस्य कर्तुः पशुर्विशेषणम्, न तु तस्य बाधक इति दर्शयति। धातोर्हि प्रत्ययविधानातदर्थस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययो भवितुमर्हति। धात्वर्थस्य च क्रियायाः साधनेन सम्बन्धः। पशुशब्दस्तु चतुष्पाज्जातीयं वस्तुस्वरूपेणाचष्टे, न शक्तिमद्रूपेण, नतरां शक्तिरूपेणेति। न पश्वर्थः स्वरूपेण प्रत्ययार्थो भवितुमर्हतीति युक्तमुक्तम्पशौ कर्तरीति। एवं सर्वत्र प्रत्ययार्तविशेषणं द्रष्टव्यम्॥