स्तम्बशकृतोरिन्

3-2-24 स्तम्बशकृतोः इन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि कृञः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्तम्ब शकृत् इत्येतयोः कर्मणोरुपपदयोरिन् प्रत्ययो भवति॥ व्रीहिवत्सयोरिति वक्तव्यम्॥ स्तम्बकरिर्व्रीहिः। शकृत्करिर्वत्सः। व्रीहिवत्सयोरिति किम्? स्तम्बकारः। शकृत्कारः॥

Siddhanta Kaumudi

Up

।<!व्रीहिवत्सयोरिति वक्तव्यम् !> (वार्तिकम्) ॥ स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोः किम् । स्तम्बकारः । शकृत्कारः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्तम्बशकृतोरिन्>> - स्तम्बशकृतोरिन् । स्तम्बे शकृति च कर्मण्युपपदे कृञ इन् स्यात् । नकार इत् । व्रीहिवत्सयोरिति । व्रीहौ वत्से च कर्तरीत्यर्थः । स्तम्बशकृतोर्यथासङ्ख्यमन्वयः । स्तम्बकरिव्र्रीहिरिति.स्तम्बं तृणनिचयं करोतीति विग्रहः ।

Padamanjari

Up

स्तम्बशकृतोरिन्॥ स्तम्बकरिरिति। नित्वात्कृदुतरपदप्रकृतिस्वरेणोतरपदमाद्यौदातं भवति॥