न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु

3-2-23 न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि टः कृञः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शब्दादिषूपपदेषु करोतेष्टप्रत्ययो न भवति । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकारः। श्लोककारः। कलहकारः। गाथाकारः। वैरकारः। चाटुकारः। सूत्रकारः। मन्त्रकारः। पदकारः॥

Siddhanta Kaumudi

Up

एषु कृञष्टो न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु>> - न शब्दश्लोक । शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र, पद- एषां नवानां द्वन्द्वः । हेत्वादिष्विति ।कृञो हेतुताच्छील्यानुलोम्येषु॑ इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः ।

Padamanjari

Up