कर्मणि भृतौ

3-2-22 कर्मणि भृतौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि टः कृञः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मणीति स्वरूपग्रहणम्। कर्मशब्द उपपदे कर्मवाचिनि करोतेष्टप्रत्ययो भवति भृतौ गम्यमानायाम्। भृतिर्वेतनम्, कर्मनिर्वेशः। कर्म करोतीति कर्मकरः । भृतक इत्यर्थः। भृताविति किम् ? कर्मकारः॥

Siddhanta Kaumudi

Up

कर्मशब्दे उपपदे करोतेष्टः स्यात् । कर्मकरो भृतकः । कर्मकारोऽन्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कर्मणि भृतौ॥ कर्मणीति स्वरूपग्रहणमिति। अनुवृतेन कर्मणीत्यनेन विशेषणात्। कर्मनिर्वेश इति। कर्म क्रिया, तस्य निष्क्रयाय देयं भक्तादिद्रव्यमित्यर्थः॥