3-2-20 कृञः हेतुताच्छील्यानुलोम्येषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि टः
index: 3.2.20 sutra: कृञो हेतुताच्छील्यानुलोम्येषु
कर्मणि उपपदे करोतेः धातोः टप्रत्ययो भवति हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने। हेतुः ऐकान्तिकं करणम्। ताच्छील्यं तत्स्वभावता। आनुलोम्यमनुकूलता। हेतौ तावत् शोककरी कन्या। यशस्करी विद्या। कुलकरं धनम्। ताच्छील्ये श्राद्धकरः। अर्थकरः। आनुलोम्ये प्रैषकरः। वचनकरः। एतेषु इति किम्? कुम्भकारः। नगरकारः।
index: 3.2.20 sutra: कृञो हेतुताच्छील्यानुलोम्येषु
एषु द्योत्येषु करोतेष्टः स्यात् । अतः कृकमि <{SK160}> इति सः । यशस्करी विद्या । श्राद्धकरः । वचनकरः ॥
index: 3.2.20 sutra: कृञो हेतुताच्छील्यानुलोम्येषु
एषु द्योत्येषु करोतेष्टः स्यात्॥
index: 3.2.20 sutra: कृञो हेतुताच्छील्यानुलोम्येषु
कृञो हेतुताच्छील्यानुलोम्येषु - नाडीमुष्टओश्च । यथासङ्ख्यं नेष्यते इति । इदं तु भाष्ये स्पष्टम् । घटीखारीत्यादि स्पष्टम् ।
index: 3.2.20 sutra: कृञो हेतुताच्छील्यानुलोम्येषु
कृञो हेतुताच्छील्यानुलोम्येषु॥ करोतेर्द्धातोरिति। प्रसिद्धतरत्वाद् द्व्यनुबन्धकस्याप्यस्यैव ग्रहणम्, न तु'कृञ् हिसायाम्' इत्यस्येति भावः। आनुलोम्ये च गम्यमान इति। एतेन हेत्वादीनि नोपपदानीति दर्शयति, एतच्च'शमि धातोः' इत्यत्र धातुग्रहणात्कृञो हेत्वादिषु टप्रतिषेधार्थाद्विज्ञायते। उपपदत्वे हि शम्यपपदे टप्रत्ययस्य प्राप्त्यभावादनर्थकं तत्स्याद्। अतौ नैषामुपपदत्वम्, नापि प्रत्ययार्थत्वम्'कर्तरि कृत्' इत्सस्य बाधप्रसङ्गात्। न चासति विरोधे बाधा युक्ता। हेतुरैकान्तिक कारणमिति। एकान्तशब्दो विनयादिषु द्रष्टव्यः, नियतमव्यभिचारीत्यर्थः। एतेन लौकिकस्य हेतोर्ग्रहणमिति दर्शयति। न हि केवले कृञि प्रयोजककर्ता सम्भवतीति भावः। ननु लौकिकेनापि हेतुना कर्तुर्विशेषणमयुक्तम्, अव्यभिचारात्, न हि कर्तुरनिमितत्वमस्ति? सत्यम्; पुनर्हेतुशब्दोपादनादैकान्तिकत्वमाश्रीयते, अन्यथा निमितमात्रमुपादीयेत। अनुकूलताऊआराध्यचितानुवर्तनम्। यशस्करी विद्येति। ठतः कृकमिऽ इत्यादिना विसर्जनीयस्य सत्वम्॥