3-2-19 पूर्वे कर्तरि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अधिकरणे टः सर्त्तेः
पूर्वशब्दे कर्तृवाचिन्युपपदे सर्तेर्धातोष्टप्रत्ययो भवति। पूर्वःसरतीति पूर्वसरः। कर्तरीति किम्? पूर्वं देशं सरतीति पूर्वसारः॥
कर्तृवाचिनि पूर्वशब्दे उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम् । पूर्वं देशं सरतीति पूर्वसारः ॥